________________
१२६
सटीकजैनतर्कभाषायां नदीपूरोऽप्यधोदेशे, दृष्टः सन्नुपरिस्थिताम् ।
नियम्यो गमयत्येव, वृत्तां वृष्टिं नियामिकाम् ॥" इति । ननु कृत्तिकोदयकालरोहिण्युदयकालद्वयव्यापकस्थूलकाल एव कृत्तिकोदयेन शकटोदयानुमाने पक्षीकरणीयः, तत्र साध्यहेत्वोरुभयोरप्यस्त्येव सद्भावः । एवं सर्वकालवर्त्तिन्याकाशात्मकदेशे तयोरस्ति सद्भाव इत्याकाशं पक्षीकृत्याऽपि पक्षधर्मता सुसम्पाद्येति पराकूतमाशङ्क्य प्रतिक्षिपति
न चाऽत्रापि 'कालाकाशादिकं भविष्यच्छकटोदयादिमत् कृत्तिकोदयादिमत्त्वाद्' इत्येवं पक्षधर्मत्वोपपत्तिरिति वाच्यम्, अननुभूयमानधर्मिविषयत्वेनेत्थं पक्षधर्मत्वोपपादने जगद्धर्म्यपेक्षया काककाष्ण्र्येन प्रासादधावल्यस्याऽपि साधनोपपत्तेः ।
अत्रापीत्यस्य वाच्यमित्यनेनाऽन्वयः । अत्रापि उदेष्यति शकटं कृत्तिकोदयादित्यादावपि । उदेष्यति शकटमित्याद्यनुमाने धर्मितया विषयत्वं कालाकाशादेर्नाऽनुभूयते इति न तस्य पक्षत्वम् । अननुभूयमानस्याऽपि पक्षतया विषयत्वाभ्युपगमे तु 'प्रासादधावल्यमस्ति काककाा 'दित्यप्यनुमानं भवेत्-जगद्रूपपक्षे प्रासादधावल्यकाककाष्र्ण्ययोः सद्भावादित्याहअननुभूयमानेति । इत्थं कालाकाशादिकं गृहीत्वा ।
ननु पक्षः साध्यं चेति द्वयं भासते । तत्र हेतोर्यद् व्याप्तिरूपं बलम्, तद्वलाद् व्यापकस्य साध्यस्य भानम्, यच्च पक्षधर्मतारूपं बलम्, तद्बलाद् धर्मिणः पक्षस्य भानमिति व्याप्तिवत् पक्षधर्मताऽपि हेतोरवश्यमभ्युपेया । हेतुबलमन्तरेणैव धर्मिणोऽनुमितौ भाने, नियतस्यैव धर्मिणो भानमिति नियामकाभावाद् न स्यादिति नियतर्मिभानान्यथानुपपत्त्या पक्षधर्मताऽवश्यमुपेयेत्याशयेन पर आह
ननु यद्येवं पक्षधर्मताऽनुमितौ नाऽङ्गम्, तदा कथं तत्र पक्षभाननियम इति चेत्, तत्र-अनुमितौ ।
पक्षधर्मत्वस्याऽनङ्गत्वेऽपि, यद्धर्म्यवच्छेदेन हेतोः साध्यं विनाऽनुपपत्तिः प्रतिसन्धीयते, यद्धर्मिणि हेतोर्ग्रहणं वा साध्यानुमिति जनयितुमलम्, तस्य धर्मिणोऽनुमितौ धर्मितया भानमित्येवं प्रतिनियतर्मिभाननिर्वाहादिति ग्रन्थकृदाह
क्वचिदन्यथानुपपत्त्यवच्छेदकतया ग्रहणात् पक्षभानम्, यथा-नभश्चन्द्रास्तित्वं विना जलचन्द्रोऽनुपपन्न इत्यत्र । क्वचिच्च हेतुग्रहणाधिकरणतया, यथा-पर्वतो वह्निमान्
१. नदीपूरो नियम्यः, वृष्टिस्तन्नियामिका ।