________________
हेतुलक्षणम्
१२५ स्वरूपासिद्धस्य, सपक्षे घटादौ सत्त्वेन, विपक्षे शशशृङ्गादावसत्त्वेन, सपक्षसत्त्वविपक्षासत्त्वलक्षणरूपद्वयसद्भावाद्, असिद्धत्वेऽपि हेतुत्वप्राप्तेरसिद्धत्वव्यवच्छेदस्याऽसम्भवेन चाक्षुषत्वहेतुनाऽपि शब्देऽनित्यत्वानुमितिः स्यादिति तत्प्रतिरोधो न भवेदित्यर्थः । असिद्धत्वव्यवच्छेदस्येत्यस्य असम्भवेनेत्यनेनाऽन्वयः । सपक्षसत्त्वस्य हेतुलक्षणघटकत्वाभावे च विरुद्धस्याऽपि साध्यानुमापकत्वं स्यादित्याह-सपक्षे एवेति । विरुद्धत्वव्युदासस्येत्यस्य असम्भवेनेत्यनेनाऽन्वयः । विपक्षासत्त्वस्य हेतुलक्षणघटकत्वाभावे व्यभिचारिणो गमकत्वं प्रसज्येतेत्याह-विपक्ष इति । अनुमित्यप्रतिरोधेत्यत्र अनुमितिप्रतिरोधेति पाठो युक्तः ।
बौद्धमतं प्रतिक्षिपति
तन्न, पक्षधर्मत्वाभावेऽपि-'उदेष्यति शकटं-कृत्तिकोदयाद्, उपरि सविताभूमेरालोकवत्त्वाद्, अस्ति नभश्चन्द्रो-जलचन्द्राद्'-इत्यनुमानदर्शनात् ।
अश्विन्यादिनक्षत्राणां पूर्वपूर्वोदये तदव्यवहितोत्तरनक्षत्राणामवश्यमेवोदय-इति नियमबलादेव, कृत्तिकोदयरोहिण्युदययो.ककालवृत्तित्वेऽपि, अव्यवहितपूर्वकालीनकृतिकोदयतः तदनन्तरोत्तरकालीनरोहिण्युदयलक्षणसाध्यस्याऽनुमितिर्जायते । तत्र यस्मिन् काले साध्यस्य सत्त्वम्, तस्मिन् काले कृत्तिकोदयलक्षणहेतोः सत्त्वाभावात् पक्षधर्मता नाऽस्ति, तथापि ततोऽनुमितिरुत्पद्यते इति । शकट-रोहिणीनक्षत्रम् ।
विभिन्नकालीनयोः साध्यसाधनभावस्थले पक्षधर्मत्वस्य व्यभिचारमुपदर्श्य विभिन्नदेशस्थयोः साध्यसाधनभावस्थले तमाह-उपरीति । उपरि-ऊर्ध्वदेशे, सविता-सूर्यः । प्रतिबिम्बस्य बिम्बानुमापकत्वं बिम्बमन्तरेण प्रतिबिम्बस्याऽनुपपत्तिलक्षणनियमबलादेवेति तत्रापि पक्षधर्मत्वाभावेऽपि प्रतिबिम्बलक्षणहेतुतो बिम्बलक्षणसाध्यानुमितिर्जायते इत्याह-अस्तीति । नभश्चन्द्रः आकाशस्थितः चन्द्रो बिम्बात्मा, जलचन्द्रो जले चन्द्रप्रतिबिम्बनादाभासमानः चन्द्रः ।
आदिपदाद्-अभूत् कृत्तिकोदयः-शकटोदयाद्, वृद्धिमान् समुद्रः-चन्द्रोदयाद्, अयं ब्राह्मणः-पित्रोर्ब्राह्मण्याद्, उपरिदेशेऽभूद् वृष्टिः-अधोदेशे नदीपूरवत्त्वाद्, भविष्यति वृष्टिःसाण्डपिपीलिकोर्ध्वसञ्चाराद्-इत्यादेरुपग्रहः । पक्षधर्मत्वस्य साध्यगमकत्वाङ्गत्वं भट्टस्याऽपि न सम्मतम् । तदुक्तं-"पित्रोश्च ब्राह्मणत्वेन, पुत्रब्राह्मणतानुमा ।
सर्वलोकप्रसिद्धा न, पक्षधर्ममपेक्षते ॥