________________
१२४
सटीकजैनतर्कभाषायां
ग्रहणं तु तदानीं नाऽस्ति, तस्य व्याप्तिस्मरणे सत्यप्यनुमानानुत्पादादिति व्याप्तिस्मरणमात्रस्य च व्यभिचारेण कारणत्वासम्भवादित्याह
अत्र हेतुग्रहण - सम्बन्धस्मरणयोः समुदितयोरेव कारणत्वमवसेयम्, अन्यथा विस्मृताप्रतिपन्नसम्बन्धस्याऽगृहीतलिङ्गकस्य च कस्यचिदनुमानोत्पादप्रसङ्गात् ।
एवकारेणैकैकस्य व्यवच्छेदः । अन्यथेति - केवलस्य हेतुग्रहणस्य केवलस्य व्याप्तिस्मरणस्य च कारणत्वाभ्युपगमे । विस्मृताप्रतिपन्नसम्बन्धस्येत्यनेन विस्मृतसम्बन्धस्याऽप्रतिपन्नसम्बन्धस्य च ग्रहणम् । तत्राऽनुमानोत्पादश्च न भवतीत्यत एकैकस्य न कारणत्वमिति
भावः ।
स्वार्थानुमानप्रसङ्गे हेतुग्रहणसम्बन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थमित्युक्तम्, तत्र को हेतुरित्याकाङ्क्षायामाह -
निश्चितान्यथानुपपत्त्येकलक्षणो हेतुः, न तु त्रिलक्षणकादिः ।
निश्चिता या साध्यं विना हेतोरनुपपत्तिः, सा निश्चितान्यथानुपपत्तिः सैवेका लक्षणं यस्य स निश्चितान्यथानुपपत्त्येकलक्षणः । एवं च निश्चितान्यथानुपपत्तिमत्त्वं हेतोर्लक्षणमित्यर्थः । एकलक्षणेत्युक्तेर्व्यवच्छेद्यमाह - न त्विति । आदिपदेन पञ्चलक्षणकस्योपग्रहः । पक्षसत्त्वसपक्षसत्त्व-विपक्षासत्त्वैतद्रूपत्रयवत्त्वं त्रिलक्षणकत्वम् । पक्षसत्त्व - सपक्षसत्त्व - विपक्षासत्त्वाऽबाधितत्वा-ऽसत्प्रतिपक्षितत्वेत्येतत्पञ्चरूपोपपन्नत्वं पञ्चलक्षणत्वम् ।
तत्रोक्तत्रिलक्षणको हेतुरिति बौद्धा अभ्युपगच्छन्ति । तन्मतं प्रतिक्षेतुमुपन्यस्यति — तथाहि - त्रिलक्षण एव हेतुरिति बौद्धाः । पक्षधर्मत्वाभावेऽसिद्धत्वव्यवच्छेदस्य, सपक्षे एव सत्त्वाभावे च विरुद्धत्वव्युदासस्य, विपक्षेऽसत्त्वनियमाभावे चाऽनैकान्तिकनिषेधस्याऽसम्भवेनाऽनुमित्यप्रतिरोधानुपपत्तेरिति ।
त्रिलक्षण एवेत्येवकारेण एकलक्षणकस्य पञ्चलक्षणकस्य च हेतोर्व्यवच्छेदः । उक्तत्रिलक्षणरहितस्य हेत्वाभासस्य सद्धेतुत्वापनोदाय त्रिलक्षणकत्वं हेतोरिष्यते बौद्धैः । तत्र त्रिरूपमध्यात् केन कस्य व्यपोह इत्यपेक्षायामाह - पक्षेति । पक्षसत्त्वं पक्षधर्मत्वम्, तद्रूपस्य हेतुलक्षणघटकत्वाभावे 'शब्दोऽनित्यः - चाक्षुषत्वादित्यत्र शब्दरूपपक्षेऽसतः चाक्षुषत्वस्य
अनुमितिनिरूपितकारणतायां पक्षद्वयं वर्तते - हेतुग्रहण- संबन्धस्मरणयोर्द्वयोरेव समुदितयोः कारणत्वमिति एकः पक्षः, नोक्तयोर्द्वयोः कारणत्वं किन्तु तद्द्वयजन्यस्य एकस्यैव लिङ्गपरामर्शस्य अनुमितिकारणत्वमित्यपरः पक्षः । अत्र ग्रन्थकृता प्रथमं पक्षमाश्रित्योक्तम् 'समुदितयो:' इति ।