________________
अनुमानम्
१२३ फलमनुव्यवसायः, तस्मिन् सति ज्ञानलक्षणप्रत्यासत्त्या व्यवसायलक्षणज्ञानस्य विषयतयाऽर्थे प्रतिभासादर्थो ज्ञात इति व्यवहारो भवति, जैनमते च व्यवसायज्ञानमेव स्वसंविदितमनुव्यवसायस्थानम्, तदेवाऽर्थे ज्ञातताव्यवहारनिबन्धनत्वात् फलम्, तच्च सर्वस्य ज्ञानस्याऽविशिष्टमित्याशयः ।
अनुमाननिरूपणम् अनुमानं निरूपयतिसाधनात् साध्यविज्ञानमनुमानम् ।
अत्र अनुमानमिति लक्ष्यनिर्देशः, साधनात् साध्यविज्ञानमिति लक्षणनिर्देशः । एतच्चाऽनुमानसामान्यलक्षणम्, विशेषलक्षणमग्रे वक्ष्यते ।
स्वार्थपरार्थभेदेनाऽनुमानस्य द्वैविध्यं दर्शयतितद् द्विविधं-स्वार्थ परार्थं च । तद्-अनुमानम् ।
तत्र हेतुग्रहण-सम्बन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थम्, यथा गृहीतधूमस्य स्मृतव्याप्तिकस्य 'पर्वतो वह्निमा निति ज्ञानम् ।
तत्र-स्वार्थानुमान-परार्थानुमानयोर्मध्ये । हेतुग्रहण-सम्बन्धस्मरणकारणकं साध्यविज्ञानमिति लक्षणनिर्देशः, स्वार्थमिति लक्ष्यनिर्देशः । यथा महानसे वह्निधूमयोर्गृहीताविनाभावस्य पुंसः पर्वतसमीपं गतस्य प्रथमं पर्वते धूमस्य ग्रहणं-'पर्वतोऽयं धूमवानि ति, ततो वह्निधूमयोः पूर्वगृहीतस्य व्याप्तिरूपसम्बन्धस्य स्मरणं-'वह्निव्याप्तो धूम' इत्याकारकं, तदनन्तरं 'पर्वतो वह्निमा'निति ज्ञानं समुत्पद्यते तद् अनुमानम् अनुमितिः ।
तत्र धूमग्रहणं करणं व्याप्तिस्मरणं व्यापार इत्येवाऽभ्युपेयते, न तु 'वह्निव्याप्यधूमवान् पर्वत' इति परामर्शस्याऽपि तत्र कारणत्वमिष्यते इत्याशयेन तद् उदाहरति-यथेति । अनुमितेः प्राक्काले गृहीतो धूमो येन प्रमात्रा स गृहीतधूमः तस्य, धूमदर्शनलक्षणोद्बोधकवशात् स्मृता व्याप्सिर्वह्निधूमयोर्येन स स्मृतव्याप्तिकः तस्य, 'पर्वतो वह्निमा'निति पर्वतविशेष्यकवह्निप्रकारकं ज्ञानं स्वगताज्ञाननिवृत्तिप्रयोजकत्वात् स्वार्थानुमानमित्यर्थः ।
___अत्र अनुमाने हेतुग्रहण-व्याप्तिलक्षणसम्बन्धस्मरणयोर्यत् कारणत्वं तत् समुदितयोरेव, न त्वेकैकस्य । येन पूर्वं व्यातिरनुभूता, इदानीं तु न स्मर्यते, येन च पूर्वं नाऽनुभूतैव व्याप्तिः, तयोः पुंसोलिङ्गग्रहेऽप्यनुमानानुदयादिति लिङ्गग्रहणमात्रस्य; यस्य च व्याप्तिस्मरणं समस्ति, लिङ्ग