________________
१२२
सटीकजैनतर्कभाषायां पादनावतारसम्भवादित्याशयेनाऽऽह-स्वातन्त्र्येणेति । शङ्कामात्रेति । इदमत्राऽवच्छेदकमिदं कस्माद् न, इदं च कारणमिदं कस्माद् नेत्यादिशङ्कामात्रेत्यर्थः ।
ननु यदि शङ्कामात्रविघटकतया नैयायिकाभिमतस्याऽपि तर्कस्योपयोगित्वमुपदर्थ्य नैयायिकं प्रत्यनुग्रहः स्याद्वादिना भवता क्रियते, तदाऽज्ञाननिवर्तकत्वेन तर्कस्य प्रामाण्यं समर्थयमानो धर्मभूषणोऽपि भवताऽनुग्राह्य एव । अन्यथाऽपक्षपाति स्वात्मगतं न स्यादित्यत आह
इत्थं चाऽज्ञाननिवर्तकत्वेन तर्कस्य प्रामाण्यं धर्मभूषणोक्तं सत्येव तत्र मिथ्याज्ञानरूपे व्यवच्छेद्ये सङ्गच्छते, ज्ञानाभावनिवृत्तिः त्वर्थज्ञातताव्यवहारनिबन्धनस्वव्यवसितिपर्यवसितैव सामान्यतः फलमिति द्रष्टव्यम् ।
इत्थम् उक्तदिशा परकीयतर्कस्योपयोगित्वसमर्थने । सत्येव मिथ्याज्ञानरूपे व्यवच्छेद्ये, तत्र = ज्ञानरूपे तर्केऽज्ञाननिवर्तकत्वेन तर्कस्य प्रामाण्यं धर्मभूषणोक्तं सङ्गच्छते इत्यन्वयः । अन्यज्ञानानामपि प्रामाण्यं समारोपलक्षणमिथ्याज्ञानव्यवच्छेदकत्वादेव, तत् तर्कस्याऽपि समस्तीति स्यात् तस्याऽपि प्रामाण्यम् । यदि च मिथ्याज्ञानं व्यवच्छेद्यमस्य नाऽङ्गीक्रियते तदा न भवेदेव प्रामाण्यमिति ।
__ यद्वा ज्ञानस्य फलमज्ञाननिवृत्तिः, यतश्चाऽर्थे ज्ञातताव्यवहारः, अज्ञानं च ज्ञानाभावः, तन्निवृत्तिर्ज्ञानम्, तच्च स्वसंविदितत्वात् फलम्, स्वव्यवसितित्वेन फलत्वस्य पूर्वं व्यवस्थापितत्वात् । स्वसंविदितं च तर्कज्ञानमपि, तदात्मकफलाव्यभिचारित्वादपि भवति प्रमाणमिति धर्मभूषणोऽपि स्याद्वादिनाऽनुगृहीतः स्यादेवेत्याह-ज्ञानाभावेति । न्यायमते व्यवसायस्य
___'नैयायिकानुरोधेन यदि शङ्कामात्रविघटकतया तर्कस्य उपयोगित्वं जैनेनापि स्वीक्रियते तर्हि धर्मभूषणेन न्यायदीपिकायां अज्ञाननिवर्तकतया समर्थितं तर्कस्य प्रामाण्यं कथं सङ्गमनीयमित्याशङ्कामपाकर्तुमाह 'इत्थं च' इति । तथा च अज्ञानपदस्य तत्र मिथ्याज्ञानपरत्वेन मिथ्याज्ञाननिवर्तकत्वं तर्कस्य तत्र धर्मभूषणाभिप्रेतत्वेन बोद्धव्यम् इति न कश्चिद्विरोधः ।
ननु यदि व्याप्तिविषयकसंशयात्मकमिथ्याज्ञाननिवर्तकतया तर्कस्य प्रामाण्यं समर्थ्यते तर्हि प्रमाणसामान्यफलतया ज्ञानाभावरूपाऽज्ञाननिवृत्तिः जैनाभिप्रेता तर्कप्रमाणफलत्वेन कथं निर्वहेत् इत्याशङ्कायामाह-'ज्ञानाभावनिवृत्तिः' इत्यादि । तथा च जैनमते ज्ञानमात्रस्य स्वप्रकाशतया तर्कस्याऽपि स्वप्रकाशत्वेन स्वव्यवसितिपर्यवसायित्वम् । स्वव्यवसितेश्च विषयव्यवसितिगर्भिततया बाह्यविषयज्ञातताव्यवहारप्रयोजकत्वेन विषयाज्ञाननिवृत्तिरूपत्वमिति वस्तुतः स्वव्यवसितेरेव ज्ञानाभावनिवृत्तिरूपतया न तर्कस्याऽपि अज्ञाननिवृत्तिरूपसामान्यफलानुपपत्तिः ।