________________
पराभिमततर्कविचारः
१२१ विघटकतया, स्वातन्त्र्येण शङ्कामात्रविघटकतया वोपयोगात् ।
तन्न-उक्तनैयायिकमतं न समीचीनम् । पराभिमतश्च तर्को नाऽस्माभिर्व्याप्तिग्राहकप्रमाणतयेष्यते, किन्तु सकलदेशकालाद्यवच्छेदेन साध्यसाधनभावादिविषयक ऊह एव तथेष्यते। तस्य च व्याप्तिग्रहरूपस्य स्वपरव्यवसायित्वलक्षणप्रामाण्याक्रान्तत्वेन स्वतः प्रामाण्यं स्यादेवेत्याह-व्याप्तिग्रहेति ।
तत् किं व्याप्यारोपेण व्यापकारोपरूपस्य तर्कस्य नैयायिकाभिमतस्य निरुपयोगित्वमेव? नेत्याह-पराभिमतेति । नैयायिकाभिमततर्कस्येत्यर्थः । क्वचिद्-यत्र तर्केणाऽस्मदभिमतेन व्याप्तिग्रहप्रसङ्गः तत्र । एतद्विचाराङ्गतया तर्केण यद् व्याप्तिसमर्थनात्मा विचारः, तदनुकूलतया ।
कथं तत्राऽऽनुकूल्यमस्त्यस्येत्यपेक्षायामाह-विपर्ययेति । अनिष्टापादनरूपस्य तर्कस्य मूलशैथिल्यादिविरहेण तर्काभासताविरहेण विपर्ययपर्यवसानमावश्यकम्, धूमो यदि वह्निव्यभिचारी स्याद् वह्निजन्यो न स्यादित्यस्य विपर्ययस्तु 'अस्ति वह्निजन्यो धूमः, तस्माद् न वह्निव्यभिचारी' । अनेन विपर्ययेण वह्निव्यभिचारित्वाभावे निश्चिते वह्निव्यभिचारित्वशङ्का व्यवच्छिद्यते । ततश्चाऽनुकूलमेव व्याप्तिग्राहकः तर्कः स्वकार्यसाधनाय प्रभवतीति आहार्यशङ्काविघटकत्वेन तर्कविचाराङ्गतयोपयोग इति नाऽस्याऽपि निरुपयोगित्वमित्यर्थः ।
यत्र तु व्याप्तिविचारो नाऽधिकृतः, तत्राऽऽहार्यशङ्काऽपि नाऽस्त्येव, अथापि विषयपरिशोधनाय स्वातन्त्र्येण तर्क आद्रियते-यदि वह्निर्न स्याद् धूमोऽपि न स्यादित्यादिः । तत्र वह्नि विनाऽपि धूमस्य या शङ्का, तादृशशङ्काविघटकतया स्वातन्त्र्येणैव पराभिमतस्य तर्कस्योपयोगः । अत एवाऽऽत्माश्रयान्योन्याश्रयचक्रकानवस्थालाघवगौरवादयो विषयपरिशोधका बहवः तर्कस्य भेदा:-तेष्वपि स्वं यदि सापेक्षं स्यात् स्वभिन्नं स्यादित्यादिरूपेणाऽनिष्टा
पर्यवसायित्वेन आहार्यशङ्काविघटकतया व्याप्तिनिर्णय एव उपयोगः । यत्र पुनर्व्याप्तिविचारो न प्रस्तुतः न वा तादृशी आहार्यशङ्का तत्र विचारानङ्गत्वेपि स्वातन्त्र्येणैव शङ्कामात्रविघटकतया तादृशस्य तर्कस्य उपयोगित्वम् इति भावः ।
१. तर्के दोषत्रयं सम्भवति–१. इष्टापत्तिः-हृदो निर्वह्निः स्याद् निधूमः स्यादित्यत्र धूमाभावस्य हृदे इष्टत्वाद् न विपर्ययपर्यवसानम् । २. मूलशैथिल्यम्-हृदो निर्वह्निः स्याद् द्रव्यं न स्यादित्यत्र वयभावद्रव्यत्वाभावयोाप्तिविरह: ३. विपर्यये तर्ककोटिमात्रापर्यवसानं-यदि रूपं चक्षरितराग्राह्यत्वे सति चक्षां न स्यात्तर्हि ग्राह्यं न स्यादित्यत्र । एतद्दोषत्रयदुष्टस्तर्कस्ताभास इत्युच्यते । तादृशो यो न भवति तस्याऽवश्यं विपर्यये पर्यवसानं भवति । (न्यायसिद्धान्तमुक्तावली-किरणावली टीका, कारिका १३७)