________________
सटीकजैनतर्कभाषायां
१२०
वा । न चाऽयं स्वतः प्रमाणम् - इति नैयायिकैरिष्यते;
आहार्यारोपो बाधनिश्चयकालीनमिच्छाजन्यं तदभाववति तज्ज्ञानम्, स्वविरोधिधर्मितावच्छेदकस्वप्रकारकं ज्ञानं वा । तच्च नियमतो मानसप्रत्यक्षमेव - परोक्षज्ञानस्याऽऽहार्यत्वानभ्युपगमात् । तथा च धूमस्य वह्निजन्यत्वलक्षणबाधनिश्चयकाले, वह्निजन्यत्वाभावव्याप्यस्य वह्निव्यभिचारित्वस्याऽऽहार्यारोपेण 'धूमो यदि वह्निव्यभिचारी स्यादित्येवं रूपेण, वह्निव्यभिचारित्वव्यापकस्य वह्निजन्यत्वाभावस्याऽऽहार्यप्रसञ्जनं 'वह्निजन्यो न स्यादित्येवंरूपं तत् तर्क इत्यर्थः ।
स च=उक्तलक्षणतर्कश्च । विशेषदर्शनवदिति । 'अयं स्थाणुर्न वे 'ति विरोधिस्थाणुत्वस्थाणुत्वाभावकोटिसंशयकाले यथा स्थाणुत्वप्रकारकनिश्चयात्मकप्रत्यक्षप्रमाकरणेन्द्रियप्रमाणस्य सहकारि स्थाणुत्वव्याप्यशाखादिमत्त्वनिश्चयलक्षणं विशेषदर्शनम्, न तु स्वातन्त्र्येण प्रमाणम्; तथा तर्कोऽप्ययं व्याप्तिविरोधिव्यभिचारशङ्काकालीनस्य व्याप्तिग्राहकान्वयव्यतिरेकसहचारग्रहलक्षणप्रत्यक्षप्रमाणस्य सहकारी, न तु स्वातन्त्र्येण प्रमाणमित्यर्थः ।
एकधर्मावच्छिन्नकार्यतानिरूपितकारणतावत्त्वलक्षणस्य स्वासमवधानप्रयुक्तफलोपधायकत्वाभाववत्कारणान्तरकत्वलक्षणस्य वा सहकारित्वकल्पनापेक्षया विरोधिशङ्कानिवर्त्तकत्वकल्पने लाघवमभिसन्धायोक्तं- विरोधिशङ्कानिवर्त्तकत्वेनेति । व्याप्तिज्ञानविरोधिव्यभिचारशङ्कानिवर्त्तकत्वेनेत्यर्थः । तदनुकूल एव = व्याप्तिज्ञानानुकूल एव । अयम् = अनन्तरोपदर्शितः तर्कः, स्वतः-साक्षात् ।
तन्न, व्याप्तिग्रहरूपस्य तर्कस्य स्वपरव्यवसायित्वेन स्वतः प्रमाणत्वात् । पराभिमततर्कस्याऽपि क्वचिदेतद्विचाराङ्गतया, विपर्ययपर्यवसायिन आहार्यशङ्काप्रथमपक्षमपेक्ष्य द्वितीयपक्षानुसरणे लाघवात् उक्तम् 'विरोधिशङ्कानिवर्त्तकत्वेन' इत्यादि । सहकारित्वं हि एकधर्मावच्छिन्नकार्यतानिरूपितकारणतावत्त्वम्, यथा-दण्डस्य कुम्भकारसहकारित्वम्, तदसमवधानप्रयुक्तफलोपधायकत्वाभाववत् तत्कत्वं वा, यथा- उत्तेजकमण्यादेः वह्निसहकारित्वम् यथा वा अदृष्टस्य कुम्भकारादिसहकारित्वम् । द्विविधस्याऽपि प्रमाणसहकारित्वस्य तर्के कल्पनमपेक्ष्य विरोधिशङ्कानिवर्तकत्वमात्रकल्पने लाघवात् ।
'क्वचिदेतत्'' - यत्र व्याप्तिग्रहानन्तरं 'पक्षे हेतुरस्तु साध्यं मास्तु' इति व्यभिचाराशङ्का समुल्लसेत्, तत्र 'यदि पर्वते वह्निर्न स्यात् तदा धूमोऽपि न स्यात्' इति व्याप्यारोपाहितस्य व्यापकारोपस्य नैयायिकाभिमतस्य तर्कस्य धूमाभावाभाववत्तया वह्न्यभावाभाववत्त्वरूपविपर्ययसाधन
१. यस्मिन् ज्ञाने स्वं (=वह्निमत्त्वादि) प्रकार:, स्वस्य विरोधी धर्मो (- निर्वह्नित्वादि) धर्मितावच्छेदकः, तद् ज्ञानं (- निर्वह्निः पर्वतो वह्निमानित्यादि) आहार्यम् ।