________________
११९
तर्कसम्बन्धिमतान्तरखण्डनम् दर्शनपुरस्सरमुपदर्शयति
यस्तु-अग्निधूमव्यतिरिक्तदेशे प्रथमं धूमस्याऽनुपलम्भ एकः, तदनन्तरमग्नेरुपलम्भः, ततो धूमस्येत्युपलम्भद्वयम्, पश्चादग्नेरनुपलम्भोऽनन्तरं धूमस्याऽनुपलम्भ इति द्वावनुपलम्भाविति प्रत्यक्षानुपलम्भपञ्चकाद् व्याप्तिग्रह-इत्येतेषां सिद्धान्तः । तदुक्तं
"धूमाधीर्वह्निविज्ञानं, धूमज्ञानमधीस्तयोः । प्रत्यक्षानुपलम्भाभ्यामिति पञ्चभिरन्वयः ॥" इति ।
स तु मिथ्या-उपलम्भानुपलम्भस्वभावस्य द्विविधस्याऽपि प्रत्यक्षस्य सन्निहितमात्रविषयतयाऽविचारकतया च देशादिव्यवहितसमस्तपदार्थगोचरत्वायोगात् ।
एतेषां-बौद्धानाम् । तत्र तेषां सम्मतिमुपदर्शयति-तदुक्तमिति । धूमाधी:= धूमस्याऽनुपलम्भः, अधीस्तयोः वह्निधूमयोः क्रमेणाऽनुपलम्भौ, अन्वयः व्याप्तिग्रहणम् । स तु मिथ्या-उक्तबौद्धसिद्धान्तो मिथ्या । तत्र हेतुमाह-उपलम्भेति ।
नैयायिकाः त्वन्यादृशमेव तर्कमुपेत्य, तस्य प्रमाणसहकारित्वेन प्रमाणानुकूलत्वेन च प्रमाणानुग्राहकत्वमेव, न तु स्वतः प्रामाण्यमित्युपगच्छन्ति । तन्मतमुपदर्थ्य प्रतिक्षिपति
यत्तु-व्याप्यस्याऽऽहार्यारोपेन व्यापकस्याऽऽहार्यप्रसञ्जनं तर्कः । स च विशेषदर्शनवद् विरोधिशङ्काकालीनप्रमाणमात्रसहकारी, विरोधिशङ्कानिवर्तकत्वेन तदनुकूल एव
तर्कस्य न स्वतः प्रामाण्यं किन्तु प्रमाणसहकारितया प्रमाणानुकूलतया वा प्रमाणानुग्राहकत्वमेव इति नैयायिकमतमुपन्यस्यति 'यत्तु' इत्यादिना ।।
'आहार्यप्रसञ्जनम्'-बाधनिश्चयकालीनेच्छाजन्यं प्रत्यक्षं ज्ञानमाहार्यज्ञानम् । पर्वते धूम स्वीकृत्य वह्निमाशङ्कमानं प्रति यत् 'यदि वह्निर्न स्यात् तहि अत्र धूमोऽपि न स्यात्' इत्यनिष्टापादनम्, तद् व्याप्यस्य आहार्यारोपेण व्यापकस्य आहार्यप्रसञ्जनम्, तत्र वढ्यभावस्य व्याप्यत्वात् धूमाभावस्य च व्यापकत्वात् । धूमाभावाभावरूपधूमवत्तया निर्णीते पर्वते वक़्यभावरूपव्याप्यारोपेण धूमाभावरूपव्यापकापादनस्य आहार्यज्ञानरूपत्वं सुस्पष्टमेव ।
"विशेषदर्शनवद्-यथा स्थाणुर्वा पुरुषो वा इत्यादिसंशयदशायां एकतरकोटिव्याप्यवत्तारूपविशेषदर्शनम् एकतरकोटिविषयके निर्णये जननीये इन्द्रियं सहकरोति, यथा वा तद् अपरकोटिनिवारकमात्रम्, तथा तर्कोऽपि प्रमाणं सहकरिष्यति विरोधिशङ्कामानं वा निवर्त्य प्रमाणानुकूलो भविष्यति इत्यर्थः ।
'विरोधिशङ्का०'-तर्कस्य प्रमाणानुग्राहकत्वं द्वधा सम्भवति-विरोधिशङ्काकालीनप्रमाणकार्यकारित्वरूपसहकारित्वेन प्रमाणकार्यप्रतिबन्धकविरोधिशङ्कापसारणमात्रेण वा । तत्र