________________
११८
सटीकजैनतर्कभाषायां सर्वोपसंहारेण व्याप्तिग्राहकत्वाभावात् । तादृशस्य तस्य सामान्यविषयस्याऽप्यनुमानवत् प्रमाणत्वाद्, अवस्तुनिर्भासेऽपि परम्परया पदार्थप्रतिबन्धेन भवतां व्यवहारतः प्रामाण्यप्रसिद्धेः।
तादृशस्य सर्वोपसंहारेण व्याप्तिग्राहकस्य, तस्य-तर्कस्य । सामान्यविषयस्येति । वस्तुभूतं सामान्यं न बौद्धाभ्युपगमे इत्यतोऽवस्तुभूतसामान्यविषयकस्याऽपीत्यर्थः । भवन्मते सामान्यं यद्यपि न वस्तुभूतं तथापि तद्विषयस्याऽनुमानस्य प्रामाण्यं भवतोऽप्यनुमतम्, तथैवाऽस्याऽपि प्रामाण्यं स्यादेवेत्यावेदयितुम् अनुमानवदिति दृष्टान्तोद्भावनम् ।
यथा चाऽवस्तुभूतसामान्यविषयकस्याऽप्यनुमानस्य न साक्षाद् वस्तुभूतस्वलक्षणात्मकग्राह्यजन्यत्वं प्रत्यक्षवत्, तथापि अतद्व्यावृत्तिलक्षणसामान्यरूपेण ज्ञायमानो यः स्वलक्षणात्मा विशेषः, तेन प्रतिबद्धं यत् स्वलक्षणात्मकं लिङ्गम्, तेन जन्यत्वात् परम्परया स्वलक्षणजन्यत्वं सम्भवत्येव । यथा च व्यवहारतोऽनुमानस्य प्रामाण्यं तथैव तर्कस्याऽपि । व्यवहारतः प्रामाण्यं नाम-अनुमाय प्रवृत्तौ स्वलक्षणं प्राप्यते इति प्रवृत्तिविषयस्वलक्षणाऽनुमानविषयसामान्ययोरैक्याध्यवसायादनुमानविषयस्याऽपि प्राप्तिरित्यर्थप्रापकत्वमेव । तच्च तर्के ऽपि-तद्विषयस्याऽपि प्राप्यस्वलक्षणेन सहैक्याध्यवसायसम्भवादित्याशयेनाऽऽहअवस्तुनिर्भासेऽपि तर्के सामान्यस्य भवन्मतेनाऽवस्तुनः सामान्यस्य प्रतिभासनेऽपि, परम्परया साध्यसाधनदर्शनविषयस्वलक्षणपरम्पराजन्यत्वतः, पदार्थप्रतिबन्धेन-दर्शनविषयस्वलक्षणात्मकपदार्थसम्बन्धेन, भवतां-बौद्धानां, व्यवहारतः प्रामाण्यस्य अर्थप्रापकत्वलक्षण-सांव्यवहारिकप्रामाण्यस्य, प्राप्यविकल्पयोरैक्याध्यवसायतः स्वलक्षणस्य प्राप्तौ तदैक्याध्यवसितस्य विकल्पस्य सामान्यस्याऽपि प्राप्तेः, प्रसिद्धः सम्भवात् ।
अनुमानेऽपि अनुमेयसामान्यैक्याध्यवसितस्वलक्षणप्रतिबद्धलिङ्गस्वलक्षणजन्यत्वलक्षणपरम्परया स्वलक्षणप्रतिबन्धेनैव भवतां व्यवहारतः प्रामाण्यप्रसिद्धिः, सा प्रकृतेऽपि तुल्यैवेति यद्यनुमानस्य प्रामाण्ये भवतामनुमतिः, तदा तर्कस्य प्रामाण्ये द्वेषो निर्निबन्धन एवेति भावः ।
बौद्धानां प्रत्यक्षानुपलम्भपञ्चकाद् व्याप्तिग्रहाभ्युपगमस्य मिथ्यात्वं तदभ्युपगमोपतथा च यथा बौद्धमते अनुमानस्य प्रामाण्यं व्यवहारतो न विरुद्धम् तथा अस्मन्मते तर्कप्रामाण्यमपि न विरोधास्पदमिति भावः ।
'अवस्तु०'-अनुमानस्य वस्तुभूतस्वलक्षणविषयानवगाहित्वेऽपि इत्यर्थः । 'परम्परया'-अनुमीयमानविषयव्याप्तस्वलक्षणात्मकलिङ्गजन्यत्वात् इत्यर्थः ।