________________
तर्कप्रामाण्यसाधनम्
११७ अयं च तर्कः सम्बन्धप्रतीत्यन्तरनिरपेक्ष एव स्वयोग्यतासामर्थ्यात् सम्बन्धप्रतीति जनयतीति नाऽवस्था ।
अयम्-अनन्तरोपवर्णितस्वरूपः ।
निर्विकल्पस्य प्रत्यक्षस्य प्रामाण्यम्, न तु तदनन्तरभाविनो विकल्पस्येत्यभ्युपगच्छन्तो बौद्धा विकल्परूपत्वात् तर्कस्य प्रामाण्यं नोररीकृतवन्त इति तन्मतं प्रतिक्षेतुमुपन्यस्यति
प्रत्यक्षपृष्ठभाविविकल्परूपत्वाद् नाऽयं प्रमाणमिति बौद्धाः, प्रत्यक्षपृष्ठभावी प्रत्यक्षोत्तरकालभावी अयं-तर्कः ।
प्रत्यक्षानन्तरभाविनो विकल्पस्य यद् न प्रमाणत्वं तत्र गृहीतमात्राध्यवसायित्वमेव प्रयोजकम्, न तु विकल्परूपत्वं-विकल्परूपत्वेऽप्यनुमानस्य प्रमाणतया बौद्धरुपगमात् । अयं च विकल्परूपोऽपि तर्को न प्रत्यक्षगृहीतमात्रग्राही-सर्वोपसंहारेण व्याप्तेः प्रत्यक्षागृहीताया एवाऽनेन ग्रहणादिति समाधत्ते
तन्न, प्रत्यक्षपृष्ठभाविनो विकल्पस्याऽपि प्रत्यक्षगृहीतमात्राध्यवसायित्वेन
'नाऽनवस्था'-निरस्तशङ्कव्याप्तिज्ञानजननाय अन्तरोदीयमानां व्यभिचारशङ्कां निरसितुमनिष्टापादनं आवश्यकम् । तच्च न व्याप्तिज्ञानं विना सम्भवति इति व्याप्तिज्ञानेऽपि व्याप्तिज्ञानान्तरापेक्षा, तत्रापि तदन्तरापेक्षा एवं क्रमेण एकस्मिन्नेव व्याप्तिज्ञाने कर्तव्येऽनन्तानन्तव्याप्तिज्ञानानामपेक्षणीयतया अनवस्था समापतति इति तन्निरासः योग्यताबलात् ग्रन्थकृता दर्शितः ।
निर्विकल्पस्यैव मुख्यं प्रामाण्यं स्वीकुर्वतां बौद्धानां मते विचारात्मकस्य तर्कस्य विकल्परूपत्वेन प्रामाण्यं न सम्भवति इति तेषां मतमाशङ्कते 'प्रत्यक्षपृष्ठभाविविकल्प०' इत्यादिना।
'तन्न' इत्यादिना विकल्प्य दूषयति । तथाहि-ननु किं तर्कस्य विकल्परूपतया अप्रामाण्यं प्रत्यक्षपृष्ठभावित्वेन तद्गृहीतमात्रग्राहित्वकृतम्, आहोस्वित् तत्पृष्ठभावित्वेऽपि तदगृहीतसामान्यग्राहित्वकृतम् ? तत्र नाऽऽद्यः, प्रत्यक्षगृहीतस्वलक्षणमात्रग्राहित्वेन विकल्पस्य अप्रामाण्येऽपि तस्य सकलोपसंहारेण व्याप्त्यनवगाहितया अस्मदभ्युपगततर्कप्रामाण्यक्षतेरभावात् । न द्वितीयः, प्रत्यक्षागृहीतसामान्यविषयकत्वेऽपि प्रत्यक्षपृष्ठभाविनो विकल्पस्य अनुमानवत् प्रामाण्ये बाधाभावात् । बौद्धा अपि अवस्तुभूतसामान्यभासकत्वेन अनुमितेः प्रत्यक्षवत् साक्षात्स्वलक्षणात्मकग्राह्यजन्यत्वाभावेऽपि तस्याः अतव्यावृत्तिरूपसामान्यात्मना ज्ञायमानविशेषप्रतिबद्धस्वलक्षणात्मकलिङ्गजन्यतया 'प्रतिबद्धस्वभावस्य तद्धेतुत्वे समं द्वयम्' इत्यादिना प्रामाण्यं समर्थयन्ते । समर्थयन्ते च ते पुनः दृश्यप्राप्ययोरैक्याध्यवसायेन अविसंवादबलात् प्रत्यक्षस्य इव अनुमितेरपि प्राप्यानुमेययोरैक्याध्यवसायरूपाविसंवादबलादेव प्रामाण्यम् । एतदेव च तस्याः व्यवहारतः प्रामाण्यं गीयते ।