________________
११६
सटीक जैनतर्कभाषायां
जनितं यद् वर्णपदवाक्यविषयकसङ्कलनात्मकप्रत्यभिज्ञानं तद्वतः । अत्र पार्श्वस्थबालस्येति द्रष्टव्यम्, तत्र बालपदमगृहीततद्वाक्यघटकपदतदर्थवाच्यवाचक भावसम्बन्धकपुरुषपरम् । एतावता तर्ककारणानां दर्शनस्मरणप्रत्यभिज्ञानानां सम्पत्तिर्दर्शिता । तादृशस्य पुंसः 'वाच्यवाचकप्रतीतिदर्शना 'दित्यत्र प्रतीतावन्वयः ।
आवापोद्वापाभ्यामिति । 'गामानये' त्यादिवाक्ये गामिति स्थाने अश्वमित्यस्य प्रक्षेप गामित्यस्याऽपनयनमुद्वापः । एवमानयेत्यस्य स्थाने नय इत्यस्य प्रक्षेप आवाप:, आनयेत्यस्याऽपनयनमुद्वापः । यथा - अश्वमानय, गां नयेत्यादि । ताभ्याम् अन्वयव्यतिरेकाभ्यामिति यावत् । पूर्वं गामानयेत्यादि वाक्यस्य गवानयनमिष्टसाधनमिति सामान्यतोऽवधारणम्, न तु गोपदस्य गौरर्थः, द्वितीयाविभक्तेः कर्मत्वमर्थः, आडित्युपसर्गसहितनीधातोरानयनमर्थः, आख्यातस्य चेष्टसाधनत्वमर्थः - इति विशेषतोऽवधारणम् । तादृशावधारणं चाऽऽवापोद्वापाभ्यामेव जायते इत्यर्थः ।
आवापः,
सकलव्यक्त्युपसंहारेण चेति । सकलगवादिरूपार्थ- सकलगोशब्दादि - स्वस्वशब्दव्यक्त्युपसंहारेण गोशब्दमात्रं गोर्वाचकं गोमात्रं च गोशब्दवाच्यमित्येवंरूपेति यावत् । वाच्यवाचकभावप्रतीतिरत्र तर्कात्मिका ज्ञेया ।
नैयायिकेन - क्वचिद् वह्नि विनाऽपि धूमो भविष्यति, वह्निविरहिण्यपि धूमः स्याद्इत्यादिव्यभिचारशङ्कानिवारणाय 'धूमो यदि वह्निव्यभिचारी स्याद् वह्निजन्यो न स्यादित्यादिरनिष्टप्रसञ्जनरूपः तर्कोऽङ्गीक्रियते । तल्लक्षणं तु व्यापकाभाववत्तया निर्णीते धर्मिणि व्याप्यारोपेण व्यापकारोप' इति । तत्राऽऽपाद्यस्य वह्निजन्यत्वाभावस्याऽऽपादकेन वह्निव्यभिचारित्वेन व्याप्तिरपेक्षिता । ताद्दृशव्याप्तिज्ञानस्याऽपि विरोधिनी आपाद्यविरहिण्यप्यापादकसत्त्वशङ्कालक्षणव्यभिचारशङ्का भवन्ती तर्केणैवाऽपरेणोन्मूलनीया । सोऽपि तर्को नाऽन्तरेणाऽऽपाद्यापादकव्याप्तिग्रहम् । तत्राऽपि विरोधिनी शङ्काऽऽपतन्ती तर्केणैव निर्वत्त्येत्येवमनवस्था यथा परमते । स्याद्वादे तु व्याप्तिप्रतिपत्तये स्वीकृतोऽयं तर्कों नाऽनवस्थया परिभूयते - सम्बन्धप्रतीत्यन्तरमन्तरेण स्वयोग्यतासामर्थ्यादेव साध्यसाधनाविनाभावलक्षणसम्बन्धप्रतीतिमाधातुं समर्थत्वादित्याह—
१. वह्निजन्यत्वाभावाभाववति धूमे वह्निव्यभिचारित्वारोपेण वह्निजन्यत्वाभावारोपः ।
२. तर्फे व्याप्यारोपरूपापादकेन व्यापक आपाद्यते । पश्चाद् व्यापकस्य निवृत्त्या व्याप्योऽपि निवर्त्तते । अत्र व्याप्यः शङ्कितधर्मो भवति - यथा धूमस्थले वह्निव्यभिचारित्वम् । व्यापको निश्चितहेतुनिष्ठत्वाभाववद्धर्मो भवति - यथा धूमस्थले वह्निजन्यत्वाभावः । परमुक्तप्रक्रियायामुभयोर्धर्मयोव्याप्यव्यापकभावोऽपेक्षितः । सोऽपि यदि शङ्कितः तर्हि तदर्थं तर्कान्तरमवतारणीयम् । एवमनवस्था ।