________________
११५
तर्कप्रमाणावश्यकतादर्शनम्
वाच्यवाचकभावावगतिरपि तर्केणैव भवतीति व्यवस्थापयतिवाच्यवाचकभावोऽपि तर्केणैवाऽवगम्यते, तस्यैव सकलशब्दार्थगोचरत्वात् । तस्य-तर्कस्य । यथा च वाच्यवाचकभावप्रतीतिर्दृश्यते तथा सा तर्केणैव सम्भविनीत्युपपाद्य दर्शयति
प्रयोजकवृद्धोक्तं श्रुत्वा प्रवर्त्तमानस्य प्रयोज्यवृद्धस्य चेष्टामवलोक्य, तत्कारणज्ञानजनकतां शब्देऽवधारयतोऽन्त्यावयवश्रवण-पूर्वावयवस्मरणोपजनित-वर्णपदवाक्यविषयसङ्कलनात्मकप्रत्यभिज्ञानवत आवापोद्वापाभ्यां सकलव्यक्त्युपसंहारेण च वाच्यवाचकभावप्रतीतिदर्शनादिति ।
प्रयोजकः आज्ञापयिता, स चासौ वृद्धः-गृहीतशब्दार्थवाच्यवाचकभावसम्बन्धकः, तेनोक्तम्-उच्चरितं 'गामायने'त्यादिवाक्यम्, श्रुत्वा-तादृशवाक्यश्रवणानन्तरम्, प्रवर्त्तमानस्यगवानयनगोचरप्रवृत्तिमतः, प्रयोज्यवृद्धस्य-आज्ञाकारिणो गृहीतशब्दार्थवाच्यवाचकभावसम्बन्धकस्य पुंसः, चेष्टामवलोक्य=गवानयनगोचरशरीरक्रियां दृष्टवा, तत्कारणज्ञानजनकतां-प्रयोज्यवृद्धगत-गवानयनानुकूलचेष्टाजनकप्रवृत्तिद्वारकज्ञानस्य'=गवानयनं मदिष्टसाधन'मित्याकारकस्य प्रयोज्यवृद्धज्ञानस्य जनकताम्, शब्दे प्रयोजकवृद्धोच्चरिते 'गामानये'त्यादिवाक्ये, अवधारयत: अनुमिन्वतः ।।
___ अनुमानप्रयोगश्च-प्रयोज्यवृद्धस्य गवानयनानुकूला चेष्टा-गवायनयनगोचरप्रवृत्तिजन्यागवानयनानुकूलचेष्टात्वाद्-या यदनुकूलाचेष्टा सा तद्गोचरप्रवृत्तिजन्या, यथा मम भोजनानुकूलचेष्टा भोजनगोचरप्रवृत्तिजन्येति । सा प्रवृत्तिः-गवानयनविशेष्यकेष्टसाधनत्वप्रकारकज्ञानजन्या-गवानयनगोचरप्रवृत्तित्वाद्-या यद्गोचरा प्रवृत्तिः सा तद्विशेष्यकेष्टसाधनत्वप्रकारकज्ञानजन्या, यथा मम भोजनगोचरप्रवृत्तिः भोजनविशेष्यकेष्टसाधनत्वप्रकारकज्ञानजन्येति । प्रयोज्यवृद्धस्य गवानयनविशेष्यकेष्टसाधनत्वप्रकारकज्ञान-प्रयोजकवृद्धोच्चरित'गामानये'तिवाक्यजन्यं-कारणान्तराभावे सति तदनन्तरं जायमानत्वादिति ।
पुनः कीदृशस्य ?-अन्त्यावयवश्रवणेति । 'गामानये'त्यादिवाक्यस्य योऽन्त्यावयवोऽन्त्यपदरूपः तस्य श्रवणम्, तस्य वाक्यस्य यः पूर्वावयवः पूर्वपदरूपः तस्य स्मरणम्, ताभ्यां व्यक्त्युपस्थापनोपयोगिसामान्यज्ञानार्थम् ऊहस्य सामान्यलक्षणापक्षेऽपि अवश्यस्वीकार्यत्वात् तेनैव सर्वत्र व्याप्तिज्ञानकल्पनं समुचितमिति भावः । १. ज्ञानात् प्रवृत्तिः (आत्मस्था), ततश्च चेष्टा (शरीरस्था) । अतो ज्ञानेन चेष्टाया जनने प्रवृत्तिरं भवति ।