________________
११४
सटीकजैनतर्कभाषायां यथा 'साक्षात्करोमी'त्यनुभवबलात् प्रत्यक्षमुपेयते, यथा वाऽनुमिनोमीत्याद्यनुभवबलादनुमित्यादिरुपेयते, तथैव 'तर्कयामी'त्यनुभवबलात् तद्विषयः तर्कोऽभ्युपेय इत्याशयः ।
सामान्यलक्षणाग्रन्थे गङ्गेशोपाध्यायेन समर्थिताऽपि सामान्यलक्षणाप्रत्यासत्तिर्दीधितिकारेण खण्डितैवेति स्वगोत्रकलहोऽपि नैयायिकानां तत्रेति तत्साधकतयोपन्यस्यमानं प्रमाणमाभास एवेत्याशयेनाऽऽह-प्रमाणाभावादिति । सामान्यलक्षणाभ्युपगमपक्षपातिनामालोककृतां पक्षधरमिश्राणां
"वक्षोजपानकृत् ! काण ! संशये जाग्रति स्फुटम् । सामान्यलक्षणा कस्मादकस्मादपलप्यते ?"इति वचनं सामान्यलक्षणानभ्युपगन्तारं दीधितिकारं प्रतीति किंवदन्त्यपि श्रूयते ।
किञ्च, प्राचीनमते ज्ञायमानं सामान्यं नवीनमते सामान्यज्ञानं सामान्यलक्षणाप्रत्यासत्तिरुपेयते नैयायिकैः । तत्र ज्ञाते सामान्ये सामान्यज्ञाने वा सति कुतः तत्प्रत्यासत्त्याऽतीतानागतवर्त्तमानसकलधूमज्ञानं भवतीति प्रश्ने, सकलधूमव्यक्तिषु धूमत्वसामान्यं समवायसम्बन्धेन धूमत्वज्ञानं वा स्वविषयवत्त्वसम्बन्धेनाऽस्तीति, सकलव्यक्तीनां तेन सम्बन्धेन सन्निकृष्टत्वाविशेषाद्, एकस्या व्यक्तेर्भानं नाऽन्यस्या इत्यत्र विनिगमकाभावाच्च सकलव्यक्तीनां भानमिति तैर्वाच्यं भवेत् । तत्र सकलास्वेव धूमव्यक्तिषु धूमत्वसामान्यस्य सम्बन्धो, न कतिपयधूमव्यक्तिमात्रे एवेत्यत्र किं निमित्तमित्येवं पृच्छायाम्, यदि सकलव्यक्तिषु तद् न समवेयाद् न सामान्यमेव भवेदित्यनिष्टापादनप्रसङ्गलब्धसत्ताका सकलधूमव्यक्तिवृत्तित्वमन्तरेणाऽनुपपद्यमानतैव व्याप्तिस्वरूपिणी आश्रयणीया, तज्ज्ञानार्थमूहाख्यतर्कोऽवश्यमभ्युपेय इति धूमवह्निव्याप्त्यवगतये प्रथमत एव सोऽभ्युपेय इत्याह
ऊहं विना ज्ञातेन सामान्येनाऽपि सकलव्यक्त्यनुपस्थितेश्च ।
'प्रमाणाभावात्'-न्यायनयेऽपि सामान्यलक्षणाप्रत्यासत्तिस्वीकारे नैकमत्यम् । तस्याः चिन्तामणिकृता सामान्यलक्षणाग्रन्थे समर्थितायाः दीधितिकृता तत्रैव निष्प्रयोजनत्वोपपादनेन निरस्तत्वात्।
'ऊहं विना'-ज्ञायमानसामान्यं सामान्यज्ञानं वा सामान्यलक्षणा प्रत्यासत्तिः । तथा च सामान्यमपि सकलव्यक्त्युपस्थापकं तदैव स्याद् यदा व्यक्तिसाकल्यं विना अनुपपद्यमानतया तद् ज्ञायेत । तथा च सकलव्यक्त्युपस्थितये सामान्ये व्यक्तिसाकल्यान्यथानुपपद्यमानताज्ञानमावश्यकम् । सामान्यनिष्ठा तादृश्यनुपपद्यमानता च व्यक्तिसाकल्यव्याप्तिरूपा । सा च 'यदि सामान्य व्यक्तिसाकल्यव्यभिचारि स्यात् तदा सामान्यमेव न स्यात्' इत्याहं विना दुर्ज्ञानेति सकल