________________
तर्कप्रमाणावश्यकतादर्शनम्
११३ व्यभिचारादर्शनसहकृतेनेन्द्रियेण व्याप्तिग्रहोऽस्तु, सकलसाध्यसाधनव्यक्त्युपसंहारस्याऽपि सामान्यलक्षणप्रत्यासत्त्या सम्भवादिति चेद्;
स्वं-हेतु:-'पर्वतो वह्निमान् धूमा'दित्यत्र धूमः, तद्व्यापकं साध्यं वह्निः, तत्सामानाधिकरण्यं धूमेऽस्तीति लक्षणसमन्वयः । 'अयोगोलकं धूमवद् वर्ते'रित्यादौ व्यभिचारिणि वह्निहेतौ नेदं लक्षणं समस्ति, यतो व्यापकत्वं-तत्समानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्त्वम्, प्रकृते 'तत्'पदेन वह्निर्धर्तव्यः, तत्समानाधिकरणः तदधिकरणवृत्तिः अत्यन्ताभावो धूमात्यन्ताभावः-तस्य वढ्यधिकरणेऽयोगोलके वृत्तित्वात्, तत्प्रतियोगितावच्छेदकमेव धूमत्वमिति न वहिव्यापकं धूमलक्षणसाध्यमिति ।
ननु कालान्तरीयदेशान्तरीयवह्निधूमादिव्यक्तीनां प्रत्यक्षासम्भवात् सकलसाध्यसाधनव्यक्त्युपसंहारेण कथं प्रत्यक्षेण व्याप्तिग्रहणमित्यत आह-सकलेति । सामान्यलक्षणप्रत्यासत्त्या इन्द्रियसम्बद्धविशेष्यक-ज्ञानप्रकारीभूतसामान्यरूपालौकिकसन्निकर्षेण । यदा कश्चिद् धूमः चक्षुःसन्निकृष्टः, ततः तद्विषयकं 'धूम' इति ज्ञानमुत्पद्यते तदा सकलधूमेन सह चक्षुष उक्तसन्निकर्षों वर्त्तते । तथाहि-इन्द्रियसम्बद्धः चक्षुस्संयुक्तः पुरोवर्तिधूमः, तद्विशेष्यकं 'धूम' इति ज्ञानम्, तत्प्रकारीभूतं धूमत्वं सामान्यं सकलधूमे वर्त्तते इति तादृशसन्निकर्षबलात् चक्षुषा सकलधूमालौकिकप्रत्यक्षम् । उक्तदिशा सकलवह्नेरपि प्रत्यक्षमतः सकलोपसंहारेण प्रत्यक्षेण व्याप्तिग्रहणमित्यर्थः ।।
ऊहाख्यतर्कमन्तरेण, ज्ञातेनाऽपि धूमत्वादिसामान्येन सकलधूमादिव्यक्तिज्ञानासम्भवात्, तर्कादेव व्याप्तिग्रहणसम्भवे, सामान्यलक्षणाप्रत्यासत्त्यभ्युपगमे मानाभावाद् नोक्तदिशा प्रत्यक्षेण व्याप्तिग्रहणसम्भव इति समाधत्ते
___न, 'तर्कयामी'त्यनुभवसिद्धेन तर्केणैव सकलसाध्यसाधनव्यक्त्युपसंहारेण व्याप्तिग्रहोपपत्तौ सामान्यलक्षणप्रत्यासत्तिकल्पने प्रमाणाभावात् ।
तर्क एव नाऽस्ति, कुतः तेन व्याप्तिग्रहोपपत्तिरित्याशङ्कापनोदायाऽऽह-तर्कयामीति ।
ननु मा भूद् अव्यभिचारलक्षणा व्याप्तिरयोग्यत्वात् प्रत्यक्षस्य विषयः, किन्तु सामानाधिकरण्यरूपायाः व्याप्तेस्तु योग्यत्वात् प्रत्यक्षविषयत्वं सुशकमेव । सामानाधिकरण्यं व्यक्तिविश्रान्ततया तत्तद्व्यक्तियोग्यत्वे प्रत्यक्षयोग्यमेव इति तत्तद्व्यक्तिग्रहे तत्सामानाधिकरण्यस्याऽपि सुग्रहत्वम् । सकलसाध्यसाधनोपसंहारेण सामानाधिकरण्यज्ञानस्य लौकिकसन्निकर्षजन्यत्वासम्भवेऽपि सामान्यलक्षणाऽलौकिकसन्निकर्षद्वारा सुसम्भवत्वात् तादृशव्याप्तिज्ञानार्थं न प्रमाणान्तरकल्पनमुचितमित्याशयेन नैयायिकः शङ्कते 'अथ' इत्यादिना ।
तक