________________
११२
सटीकजैनतर्कभाषायां साध्यवत्प्रतियोगिकान्योन्याभावासामानाधिकरण्य ४. सकलसाध्याभाववनिष्ठाभावप्रतियोगित्व ५. साध्यवदन्यावृत्तित्व-भेदात् । इयं च व्याप्तिः केवलान्वयिसाधकानुमानस्याऽलक्ष्यत्वमभ्युपेत्य । तस्य लक्ष्यत्वे तु हेतुव्यापकसाध्यसामानाधिकरण्यमेव व्याप्तिः, तद्ग्रहस्याऽपि च साध्याभावववृत्तित्वलक्षणव्यभिचारग्रहविरोधित्वमभ्युपेयते । तत्राऽव्यभिचारलक्षणव्याप्तावित्यर्थः ।
भूयोदर्शनेति । इदं च मीमांसकमतमवलम्ब्य । यत्र यत्र धूमस्य दर्शनं तत्र तत्र वढेरपि दर्शनम्, तत्सहितौ यौ अन्वयव्यतिरेकौ साध्यहेतुसामानाधिकरण्य-साध्याभावहेत्वभावसामानाधिकरण्ये तत्सहकारेणाऽपीत्यर्थः ।
प्रत्यक्षस्येति । सन्निकृष्टवर्त्तमानमात्रविषयकस्य प्रत्यक्षस्य, तावदिति वाक्यालङ्कारे । अविषयत्वादेवेति । साध्यसाधनमात्रगतायामव्यभिचारलक्षणायां व्याप्तावित्यस्याऽभिसम्बन्धेन विषयत्वाभावादेव, 'यो यस्य ज्ञानस्य विषयः, तत्रैव तज्ज्ञानस्य प्रवृत्ति'रिति नियमात् प्रत्यक्षस्य नाऽव्याभिचारलक्षणव्याप्तौ प्रवृत्तिः ।
यदा चाऽव्यभिचाररूपायामपि तस्यां न प्रवृत्तिः, तदाऽतीतानागतवर्त्तमानसाध्यसाधनघटिता न प्रत्यक्षस्य वर्तमानमात्रविषयकस्य विषय इति न तत्र तस्य प्रवृत्तिरित्याह-सुतरां चेति । केवलाव्यभिचारग्रहणेऽपि यस्य न सामर्थ्यम्, तस्य न सम्भवत्येव सकलसाध्यसाधनव्यक्त्युपसंहारेण व्याप्तिग्रहणे इति भावः ।
प्रत्यक्षाग्राह्यत्वादेव तन्मूलकानुमानादिग्राह्यत्वमपि न व्याप्तेः, किन्तु जैनाभिमतोहाख्यतर्कप्रमाणग्राह्यत्वमेवेत्यतः तर्कप्रमाणमभ्युपेयमित्याह-साध्येति । पूर्वं साध्यसाधनयोरेकत्र दर्शनम्, ततो हेतुदर्शने सति पूर्वदृष्टसाध्यसाधनसहचारस्य स्मरणम्, ततो वर्तमानदर्शनविषये धूमादिलिङ्गे पूर्वदृष्टवल्यादिसहचरितधूमस्य सजातीयत्वप्रतिसन्धानलक्षणप्रत्यभिज्ञानम्, ततः तत्सहचरितात् तर्काख्यज्ञानावरणकर्मक्षयोपशमविशेषाद् जातो 'यत्र यत्र धूमः तत्र तत्राऽग्नि'रित्याकारकः तर्कः सकलसाध्यसाधनव्यक्त्युपसंहारेण तत्प्रतीर्ति= व्याप्तिप्रतीतिम्, आधातुं जनयितुम्, अलं-समर्थः ।
अव्यभिचारलक्षणव्याप्तेः प्रत्यक्षायोग्यत्वात् प्रत्यक्षेण तद्ग्रहणासम्भवेऽपि, सहचारनियमलक्षणव्याप्तेः स्वव्यापकसाध्यसामानाधिकरण्यरूपायाः प्रत्यक्षयोग्यत्वात् प्रत्यक्षेण तद्ग्रहणं भविष्यतीति व्यर्थमेव तर्कप्रमाणकल्पनमिति नैयायिकः शङ्कते
अथ स्वव्यापकसाध्यसामानाधिकरण्यलक्षणाया व्याप्तेर्योग्यत्वाद् भूयोदर्शन