________________
तर्कः
१११ विषयविशेषघटितमूर्तिकबोधरूपस्य तर्कस्य प्रदर्शनम्
यथा-'यावान् कश्चिद् धूमः स सर्वो वह्नौ सत्येव भवति, वह्नि विना वा न भवति',
वह्नौ सत्येव भवतीत्यन्वयव्याप्तिग्रहाकारप्रदर्शनम्, वह्नि विना वा न भवतीति व्यतिरेकव्याप्तिग्रहाकारोपदर्शनम्, यावान् कश्चिद् धूमः स सर्व इत्युभयत्राऽन्वितम् ।
व्याप्तिग्रहलक्षणं तर्कमुदाहृत्य वाच्यवाचकभावसम्बन्धग्रहलक्षणं तर्कमुदाहरति'घटशब्दमानं घटस्य वाचकम्, घटमात्रं घटशब्दवाच्य मित्यादि ।
व्याप्तिग्रहणमूहाख्यतर्कप्रमाणेनैव, न तु-प्रत्यक्षप्रमाणेन सहचारदर्शनादिसहकृतेन व्याप्तिग्रहणं वदन्-नैयायिको यथार्थवादीत्याह
स्वरूपप्रयुक्ताव्यभिचारलक्षणायां व्याप्तौ, भूयोदर्शनसहितान्वयव्यतिरेकसहकारेणाऽपि प्रत्यक्षस्य तावदविषयत्वादेवाऽप्रवृत्तिः, सुतरां च सकलसाध्यसाधनव्यक्त्युपसंहारेण तद्ग्रह इति साध्यसाधनदर्शनस्मरणप्रत्यभिज्ञोपजनितः तर्क एव तत्प्रतीतिमाधातुमलम् ।
स्वरूपप्रयुक्ता-कार्यकारणभाव-तादात्म्यान्यतरलक्षणप्रतिबन्धप्रयुक्ता, स्वाभाविकीति यावत् । व्याप्तिद्विधा-अनौपाधिकी सोपाधिकी च । यथा धूमे वह्निव्याप्तिरनौपाधिकी । सोपाधिकी तु वह्नौ धूमव्याप्तिः, उपाधिः तत्राऽऽर्दैन्धनसंयोगः । साध्यव्यापकत्वे सति साधनाव्यापकत्वमुपाघेर्लक्षणम् । आर्टेन्धनसंयोगो हि धूमव्यापकत्वे सति वक़्यव्यापक इति भवत्युपाधिः, तद्गता च धूमव्याप्तिः तत्सम्बन्धाद् वह्नौ प्रतिभाति । न साऽनुमितिनिबन्धना
'अन्ये परप्रयुक्तानां, व्याप्तीनामुपजीवकाः । तैदृष्टैरपि नैवेष्टा व्यापकांशावधारणा ॥' इति ।
स्वरूपप्रयुक्ता कीदृशी व्याप्तिरित्यपेक्षायामाह-अव्यभिचारेति । अव्यभिचारलक्षणा च पञ्चविधा व्याप्ति:-१. साध्याभाववदवृत्तित्व २. साध्यवद्भिन्नसाध्याभाववदवृत्तित्व ३.
‘स्वरूपप्रयुक्ता'-स्वाभाविकाऽव्यभिचाररूपा व्याप्तिरित्यर्थः । तच्छून्यावृत्तित्वरूपोऽव्यभिचारो द्विविधः अनौपाधिकः औपाधिकश्च । धूमे वह्निशून्यावृत्तित्वस्य उपाध्यकृतत्वेन अनौपाधिकत्वात् स्वाभाविकत्वम् । वह्नौ तु धूमशून्यावृत्तित्वस्य आर्दैन्धनसंयोगरूपोपाधिकृतत्वेन औपाधिकत्वात् न स्वाभाविकत्वम् इति बोध्यम् । स्वाभाविकाव्यभिचारलक्षणैव व्याप्तिरनुमित्यौपयिकीत्यभिप्रायेण उक्तम् ‘स्वरूपप्रयुक्ताव्यभिचारलक्षणायाम्' इत्यादि ।