________________
सटीकजैनतर्कभाषायां
११०
प्रतीत्यर्थं प्रमाणान्तरमादरणीयं स्यात् ।
अतो=बिल्वात् तद्=आमलकम् । इत्यादीत्यत्र आदिपदाद् 'बिल्वादाम्रफलं महद्' - इत्यादिज्ञानानामुपग्रहः ।
ननु ‘अतः तत् सूक्ष्म'मित्यादिज्ञानानामलौकिकमानसप्रत्यक्षत्वमेव नैयायिकैरभ्युपगम्यते इति प्रत्यक्षप्रमाणे एवोक्तप्रतीतीनामन्तर्भावाद् न प्रमाणान्तरप्रसङ्ग इत्यत आहमानसत्वे चाऽऽसामुपमानस्याऽपि मानसत्वप्रसङ्गात् ।
आसां सूक्ष्मत्वादिप्रतीतीनाम् ।
ननूपमानस्य मानसत्वप्रसङ्गस्य ममाऽनिष्टस्याऽऽपत्तौ भवतोऽपि तद् अनिष्टमेवाssपतितमित्यत आह
'प्रत्यभिजानामी 'ति प्रतीत्या प्रत्यभिज्ञानत्वमेवाऽभ्युपेयमिति दिक् ।
भवेदेतद् यद्युक्तप्रतीतीनामनन्तरमनुव्यवसायत्वेन भवताऽधीतः प्रत्ययः १, अस्माकं तु स्वसंवेदनरूपतयोक्तप्रतीतिस्वरूप एव प्रत्यय: २, 'साक्षात्करोमी' त्येवंरूपः स्याद्, न चैवम्, किन्तु 'प्रत्यभिजानामी'त्येवंरूपैवाऽऽसां प्रतीतिरनुभूयते इति तया प्रत्यभिज्ञानत्वमेवाऽऽसामभ्युपेयमिति भावः ।
तर्कनिरूपणम्
तर्कं निरूपयति
सकलदेशकालाद्यवच्छेदेन साध्यसाधनभावादिविषय ऊहः तर्कः ।
अत्र तर्क इति लक्ष्यनिर्देशः, सकलेत्यादि ऊह इत्यन्तं लक्षणवचनम् । भूता भविष्यन्तो वर्त्तमानाश्च ये धूमादिवन्याद्यधिकरणीभूता [देशाः ], ये च तथाविधाः कालाः, आदिपदाद् ये च धूमवह्न्यादीनामवान्तरविशेषादयः, तदवच्छेदेन सर्वोपसंहारेणेति यावत् । साध्यसाधनभावादीत्यादिपदाद् वाच्यवाचकभावादेरुपग्रहः, तद्विषयको बोध ऊहापरपर्यायः तर्क इत्यर्थः ।
'आसाम्'- सूक्ष्मत्व-स्थूलत्व - दूरत्व- समीपत्वादिगोचराणां सङ्कलनात्मिकानां सर्वासां प्रतीतीनामित्यर्थः ।
१ - २. 'अयं घट' इति चाक्षुषादिज्ञानानन्तरं 'घटं साक्षात्करोमी' त्याद्यनुव्यवसायो भवतीति ज्ञानपरोक्षत्ववादिनो नैयायिकाः । तेषां मते 'अस्मात् तत् सूक्ष्म' मिति प्रतीतेर्मानसत्वे तदनन्तरं 'साक्षात्करोमीति प्रत्ययो जायेत । 'अयं घटः, तमहं जानामी' त्येक एव प्रत्ययो भवतीति ज्ञानस्य स्वपरोभयसंवेदनत्वमभ्युपगच्छन्तो जैना: । तेषां मते 'अस्मात् तत् सूक्ष्मम्, तदहं साक्षात्करोमीति प्रत्ययः स्यात् । न चैवं भवतीति भावः ।