________________
उपमानप्रमाणनिरसनम्
उपमानम्=उपमितिरित्यर्थः ।
१०९
एतेनेत्यादिष्टमेव तन्मतनिरासहेतुमुपदर्शयति
अनुभूतव्यक्तौ ‘गवय 'पदवाच्यत्वसङ्कलनात्मकस्याऽस्य प्रत्यभिज्ञानत्वानति
क्रमात् ।
अनुभूतव्यक्तौ=प्रत्यक्षविषयव्यक्तौ । अस्य - 'अयं गवयशब्दवाच्य' इति ज्ञानस्य । ननु गवयत्वं प्रवृत्तिनिमित्तीकृत्य 'गवयपदवाच्यत्वग्रहरूपमिदं ज्ञानमभिमतम्, तत् कथं प्रत्यभिज्ञानसामग्रीतो जायेत ? गवयत्वस्य प्रागननुभूततया, अतिदेशवाक्येन तदवच्छिन्ने गवयपदवाच्यत्वस्याऽप्रतिपादितत्वेन, स्वाविषये १ तत्राऽतिदेशवाक्यार्थज्ञानेनोक्तज्ञानस्योत्पादनासम्भवात् । अन्यथा गोर्गवयत्वव्यतिरिक्तधर्मावच्छिन्नेऽपि गवयपदवाच्यत्वस्य प्रतिपत्तिर्भवेदित्यत आह
प्रत्यभिज्ञानावरणकर्मक्षयोपशमविशेषेण यद्धर्मावच्छेदेनाऽतिदेशवाक्यानूद्यधर्म
दर्शनम्, तद्धर्मावच्छेदेनैव पदवाच्यत्वपरिच्छेदोपपत्तेः ।
अतिदेशवाक्यं 'गोसदृशो गवय' इति । तत्र ' गवय' पदं ' गवयपदवाच्यपरम्, तद् गोसादृश्यमनूद्य तत्सामानाधिकरण्येन 'गवयपदवाच्यत्वं विदधातीति तदनूद्यो धर्मो गोसादृश्यम्, तस्य गवयत्वावच्छेदेन दर्शनमिति प्रत्यभिज्ञानावरणकर्मक्षयोपशमविशेषेण गवयत्वावच्छेदेनैव गवयपदवाच्यत्वस्य परिच्छेदोपपत्तेः-निर्णयात्मकज्ञानसम्भवादित्यर्थः ।
अत एव 'पयोम्बुभेदी हंसः स्यादित्यादिवाक्यार्थज्ञानवतां पयोम्बुभेदित्वादिविशिष्टव्यक्तिदर्शने सति 'अयं हंसपदवाच्य' इत्यादिप्रतीतिर्जायमानोपपद्यते ।
अत एव-निरुक्तकार्यकारणभावबलादेव । अस्य उपपद्यते इत्यनेन सम्बन्धः । पयोम्बुभेदी=क्षीरनीरविवेकर्त्ता, अर्थात् क्षीरनीरयोरन्योन्यमिश्रितयोर्मध्याद् नीरं विहाय क्षीरस्य पानकर्त्ता, हंसः स्यात्= हंसपदवाच्यो भवेत् । अन्यत् स्पष्टम् ।
एवमनभ्युपगमे नैयायिकस्य स्वाभ्युपगतप्रत्यक्षानुमानोपमानागमाख्यप्रमाणचतुष्टयव्यतिरिक्तान्यपि सूक्ष्मत्वादिग्राहकज्ञानादिलक्षणप्रमाणान्यापतेरन् इत्याह
यदि च 'अयं गवयपदवाच्य' इति प्रतीत्यर्थं प्रत्यभिज्ञानारिक्तं प्रमाणमाश्रीयते तदा आमलकादिदर्शनाहितसंस्कारस्य बिल्वादिदर्शनाद् 'अतः तत् सूक्ष्म 'मित्यादि
१. नैयायिकेनोपमितिरूपेणाऽभिमतं संज्ञासंज्ञिसम्बन्धज्ञानं = गवयत्वावच्छिन्ने गवयपदवाच्यत्वज्ञानम् । 'गोसदृशो गवय' इति वाक्यं न गवयत्वाच्छिन्ने गवयपदवाच्यत्वं प्रतिपादयति ।