________________
१०८
सटीकजैनतर्कभाषायां
तथापि
"सम्बन्धस्य परिच्छित्तिः, संज्ञायाः सञ्जिना सह ।
प्रत्यक्षादेरसाध्यत्वादुपमानफलं विदुः ॥" (३.१०) इत्यादिनोदयनाचार्येण 'अयं गवयपदवाच्य' इति 'गवयो गवयपदवाच्य' इति वा ज्ञानस्य, 'गवय'नाम्नो गवयरूपार्थेन सह शक्तिरूपसम्बन्धविषयकस्य, 'गोसदृशोऽय'मिति ज्ञानेन 'गोसदृशो गवय' इत्यतिदेशवाक्यार्थस्मृतिव्यापारकेण जनितस्योपमितित्वमभ्युपगम्यते । तदपि न समीचीनं-तादृशज्ञानस्याऽपि सङ्कलनात्मकत्वेन प्रत्यभिज्ञानत्वस्यैव व्यवस्थितेरित्याह
एतेन-'गोसदृशो गवय' इत्यतिदेशवाक्यार्थज्ञानकरणकं सादृश्यविशिष्टपिण्डदर्शनव्यापारकम् 'अयं गवयपदवाच्य' इति सञ्ज्ञासझिसम्बन्धप्रतिपत्तिरूपमुपमानम्इति नैयायिकमतमप्यपहस्तितं भवति ।
एतेनेत्यस्य अपहस्तितं भवतीत्यनेनाऽन्वयः । वनं गतस्य पुंसो यत् प्रथमतो गवयपिण्डदर्शने सति 'गोसदृशोऽय'मिति ज्ञानमुत्पद्यते, तस्योपमितिकरणत्वमवतरणिकायां कतिपयनैयायिकाभिप्रायमाश्रित्याऽस्माभिरुपदर्शितम्, 'गोसदृशो गवय' इत्यतिदेशवाक्यार्थज्ञानकरणकमिति तु नैयायिकैकदेशिमतमवलम्ब्य ग्रन्थकृतोक्तम् ।
अत्र आरण्यकं प्रति 'गवयः कीदृ'गिति ग्रामीणस्य ‘गवय'शब्दवाच्यमजानानस्य प्रश्नानन्तरं गवयशब्दप्रवृत्तिनिमित्त-गवयत्वोपलक्षक-गोसादृश्यसामानाधिकरण्येन गवयशब्दवाच्यत्वस्य प्रतिपादकं 'गोसदृशो गवय' इत्यतिदेशवाक्यमारण्यकेन ग्रामीणं प्रत्युक्तम्, तद्वाक्यार्थज्ञानम् 'अयं गवयपदवाच्य' इत्युपमितौ करणम्, वनं गतस्य तु ग्रामीणस्य यद् गवयदर्शने सति 'गोसदृशोऽय'मिति प्रत्यक्षम्, तत् तस्य व्यापारः, अनन्तरम् 'अयं गवयपदवाच्य' इति ज्ञानमुपमितिः ।
तस्याः स्वरूपं विषयस्वरूपोदर्शनेन स्पष्टयति-सज्ञेति । सञ्जा-गवयेति नाम, सञी-गवयरूपोऽर्थः, तयोः सम्बन्धः='गवयपदाद् गवयो बोद्धव्य' इतीश्वरेच्छारूपसङ्केतः, तस्य प्रतिपत्तिः='अयं गवयपदवाच्य' इति 'गवयो गवयपदवाच्य' इति वा, तद्रूपं तदात्मकम्,
नैयायिकास्तु मीमांसकवत् नोपमानस्य प्रमेयं सादृश्यादिकं मन्यन्ते किन्तु सञ्ज्ञासञ्जिसम्बन्धरूपमेव प्रमेयं तद्विषयत्वेन कल्पयन्ति इति सज्ञासञ्जिसम्बन्धस्याऽपि प्रत्यभिज्ञाविषयत्वसमर्थनेन नैयायिकाभ्युपगतम् उपमानस्य प्रमाणान्तरत्वं निरसितुं तन्मतमुपन्यस्यति ‘एतेन' इत्यादिना ।