________________
उपमानप्रमाणनिरसनम्
सम्मतिमाह - तदुक्तमिति । अयमर्थः तस्माद् दृष्टाद् गवयाद् यत् = पूर्वदृष्टं स्वकीयगोस्वरूपं स्मर्यते तद्=गोस्वरूपं सादृश्येन विशेषितं गवयसादृश्यविशिष्टं सद् उपमानस्य = 'अनेन सदृशी मदीया गौ'रित्युपमितेः प्रमेयं विषयः स्यात् । वा= अथवा तदन्वितं = स्मृतगोव्यक्तिविशिष्टं सादृश्यम् = अनुभूयमानगवयसादृश्यम् उपमानस्य = 'अनेन गवयेन सादृश्यं मदीयायां गवी'त्युपमितेः प्रमेयं स्यात् ।
-
१०७
'अनेन सदृशी मदीया गौ' रित्यस्योपमितित्वे 'गोसदृशो गवय' इति ज्ञानं तत्करणत्वादुपमानम् । ‘अनेन सादृश्यं तत्रे' त्यस्योपमितित्वे 'तत्सादृश्यमस्ये 'ति ज्ञानं तत्करणत्वादुपमानं बोध्यम् ।
दर्शितोपमितिप्रमेयस्याऽन्यप्रमाणादसिद्धेरुपमानमेव तत्र प्रमाणान्तरमास्थेयमित्याहप्रत्यक्षेणेति । प्रत्यक्षेण - 'गोसदृशोऽयमिति प्रत्यक्षेण अवबुद्धेऽपि = ज्ञातेऽपि सादृश्ये = गवयनिष्ठगोसादृश्ये, गवि च स्मृते स्मरणविषये गवि पुनः, विशिष्टस्य = गवयनिरूपितसादृश्यविशिष्टस्य गोस्वरूपस्य, गवयनिरूपितस्य गोनिष्ठसादृश्यस्य वा अन्यतोऽसिद्धेःउपमानप्रमाणव्यतिरिक्तप्रमाणात् सिद्ध्यभावाद् उपमानप्रमाणता-उक्तविशिष्टसिद्धये उपमानस्य प्रत्यक्षादिप्रमाणव्यतिरिक्तप्रमाणताऽऽस्थेयेति ।
यद्यत् सङ्कलनात्मकं ज्ञानं तत् सर्वं प्रत्यभिज्ञानमेवेत्युक्तसादृश्यज्ञानस्याऽपि सङ्कलनात्मकत्वेन प्रत्यभिज्ञानत्वमेवेति तस्योपमानतया प्रमाणान्तरत्वमननं न युक्तमित्याह
तन्न, दृष्टस्य सादृश्यविशिष्टपिण्डस्य स्मृतस्य च गोः सङ्कलनात्मकस्य 'गोसदृशो वय' इति ज्ञानस्य प्रत्यभिज्ञानताऽनतिक्रमात् । अन्यथा 'गोविसदृशो महिष' इत्यादेरपि सादृश्याविषयकत्वेनोपमानातिरेके प्रमाणसङ्ख्याव्याघातप्रसङ्गात् ।
दृष्टस्येत्यादि व्यक्तम् । अन्यथा = सङ्कलनात्मकस्याऽपि सादृश्यज्ञानस्य प्रत्यभिज्ञानत्वमनभ्युपगम्य प्रमाणान्तरोपमानरूपत्वाभ्युपगमे । आदिपदाद् दूरत्वादिज्ञानस्योपग्रहः । सादृश्याविषयकत्वेनेति । सादृश्यविषयकज्ञानमेव भवतोपमानतयाऽभ्युपगम्यते इति वैसदृश्यादिज्ञानस्य सादृश्याविषयकत्वेनोपमानभिन्नत्वप्राप्तौ प्रत्यक्षानुमानोपमानशाब्दार्थापत्त्यनुपलब्धिभेदेन प्रमाणस्य षड्विधत्वं यद् भवता मीमांसकेनाऽभ्युपेयते तस्य व्याघातः प्रसज्येतेत्यर्थः । सादृश्यज्ञानस्योपमितिरूपता यद्यपि नैयायिकेन नाऽभ्युपगम्यते, यत उक्तम् उदय
"
नाचार्येण
"साधर्म्यमिव वैधर्म्यं, मानमेवं प्रसज्यते ।
अर्थापत्तिरसौ व्यक्तमिति चेत् प्रकृतं न किम् ?" इति; ( ३.९)