________________
१०६
सटीकजैनतर्कभाषायां किञ्च, 'स' इति स्मृतिः, 'अय'मित्यनुभवः, 'सोऽय'मिति तयोः सङ्कलनमित्येवं क्रमोऽत्राऽनुभूयते, न चैवं प्रत्यक्षे इत्यतोऽपि प्रमाणान्तरत्वमित्याह
स्मृत्यनुभवसङ्कलनक्रमस्याऽऽनुभविकत्वाच्चेति दिक् ।
बौद्धाभ्युपगतजगत्क्षणभङ्गरत्ववादापकरणार्थं सर्वेऽपि स्थैर्यवादिनः प्रत्यभिज्ञानं प्रमाणतयोररीकुर्वन्त्येव । तत्र पूर्वापरकालीनयोक्यावगाहित्वेनैव प्रत्यभिज्ञानं स्थैर्यसाधनाय क्षणभङ्गबाधनाय च प्रगल्भमिति पूर्वापरैक्यावगाहिज्ञानस्यैव प्रत्यभिज्ञानत्वं मीमांसकनैयायिकादयोऽभ्युपगच्छन्ति, न तु सादृश्यवैसदृश्यादिज्ञानानामपि । जैनाः पुनरनुभवस्मरणप्रभवानां सादृश्यादिज्ञानानामपि सङ्कलनात्मकत्वाविशेषादेकत्वमात्रविषयकत्वस्य प्रत्यभिज्ञानत्वेऽतन्त्रत्वात् प्रत्यभिज्ञानत्वमामनन्ति । तत्र सादृश्यज्ञानस्योपमानत्वमेव, न तु प्रत्यभिज्ञानत्वमिति भट्टमतं कदाग्रहविलसितमेवेत्यावेदयितुमुपन्यस्यति____ अत्राऽह भाट्टः-नन्वेकत्वज्ञानं प्रत्यभिज्ञानमस्तु, सादृश्यज्ञानं तूपमानमेव-गवये दृष्टे गवि च स्मृते सति सादृश्यज्ञानस्योपमानत्वात् । तदुक्तं-तस्माद् यत् स्मर्यते तत् स्यात्, सादृश्येन विशेषितम् ।
प्रमेयमुपमानस्य, सादृश्यं वा तदन्वितम् ॥ प्रत्यक्षेणाऽवबुद्धेऽपि, सादृश्ये गवि च स्मृते ।
विशिष्टस्याऽन्यतोऽसिद्धरुपमानप्रमाणता ॥ इति । भाट्टः-कुमारिलभट्टानुयायी । एकत्वज्ञानं-पूर्वदृष्टेन सहेदानीमनुभूयमानस्याऽभेदावगाहि ज्ञानम् । सादृश्यज्ञानं तु='गोसदृशो गवय' इति ज्ञानं यद् भवता प्रत्यभिज्ञानतयोदाहृतं तत् पुनः । दृष्टे गवये स्मृतायां गवि जायमानस्य सादृश्यज्ञानस्योपमानत्वे भट्टस्य
ननु क्लुप्तप्रत्यक्षप्रमाणान्तर्गतत्वेन प्रत्यभिज्ञायाः प्रामाण्यमभ्युपगच्छन्तोऽपि मीमांसकनैयायिकादयः स्थैर्यरूपमेकत्वमेव तस्याः विषयत्वेन मन्यन्ते, न पुनर्जेंना इव सादृश्य-वैसदृश्यदूरत्व-समीपत्व-हस्वत्व-दीर्घत्वादिकमपि । ते हि सादृश्यादिप्रमेयप्रतिपत्त्यर्थमुपमानादिप्रमाणान्तरमेव प्रत्यभिज्ञाविलक्षणं कल्पयन्ति इति एकत्ववत् सादृश्यवैसदृश्यादेरपि प्रत्यभिज्ञाविषयत्वसमर्थनेन तेषां मतमपासितुं ग्रन्थकारः पूर्वं भाट्टपक्षं उपन्यस्यति 'ननु' इत्यादिना।
१. एकत्वमात्रविषयकं प्रत्यभिज्ञानमिति नियमाभावात् । २. अरण्ये गवयो दृष्टः, ततो गृहस्थस्वकीयगोः स्मृतिर्जाता, तदनन्तरमुभयोः सादृश्यज्ञानाद् ‘अनेन सदृशी मदीया
गौ'रिति गवयसादृश्यविशिष्टगोस्वरूपविषयकम् 'अनेन गवयेन सादृश्यं मदीयायां गवी'ति गोस्वरूपविशिष्टगवयसादृश्यविषयकं वा ज्ञानं जायते, सा उपमिति:-इति भट्टमतम् ।