________________
१०५
प्रत्यभिज्ञानसम्बन्धिमतान्तरखण्डनम् प्रतीतितो विलक्षणैव 'प्रत्यभिजानामी'ति प्रतीतिरिति प्रत्यक्षाद् भिन्नमेव प्रत्यभिज्ञानमभ्युपगन्तव्यमित्याह
किञ्च, 'प्रत्यभिजानामि' इति विलक्षणप्रतीतेरप्यतिरिक्तमेतत् ।
विलक्षणप्रतीतेरपि-प्रत्यक्षप्रतीतिविसदृशप्रतीतिबलादपि अतिरिक्तं-प्रत्यक्षतो भिन्नम् एतत्-प्रत्यभिज्ञानम् ।
यदपि 'सोऽयं घट' इत्यत्र विशेष्येण घटेन सह चक्षुरिन्द्रियस्य सन्निकर्षात्, 'स' इति तत्तारूपविशेषणस्मरणरूपज्ञाने सति जायमानस्य ज्ञानस्य विशेष्येन्द्रियसन्निकर्षजन्यत्वेन प्रत्यक्षत्वमेव युक्तमिति नैयायिकमतम्, तदपि 'प्रत्यभिजानामी'ति विलक्षणप्रतीतितोऽतिरिक्ततया प्रत्यभिज्ञानस्य सिद्ध्या निरस्तमित्याह
एतेन-विशेष्येन्द्रियसन्निकर्षसत्त्वाद् विशेषणज्ञाने सति विशिष्टप्रत्यक्षरूपमेतदुपपद्यते इति निरस्तम्,
एतेनेति । अस्य निरस्तमित्यनेनाऽन्वयः । तन्निरासे हेत्वन्तरमप्याह'एतत्सदृशः स' इत्यादौ तदभावात्,
तदभावाद-विशेष्येन्द्रियसन्निकर्षाभावात् । ‘स एवाऽयं घट' इत्यत्र पुरोवर्तिनो घटस्य विशेष्यत्वेन तेन सहेन्द्रियसन्निकर्षस्य भावेऽपि, ‘एतत्सदृशः स' इत्यादौ सादृश्यरूपविशेषणे प्रतियोगितया 'एतद्'अर्थस्य विशेषणत्वमेव, तच्छब्दार्थस्य तत्ताविशिष्टस्यैव विशेष्यत्वम्, तेन सह नेन्द्रियसन्निकर्ष इति भवदभिमतस्य प्रत्यक्षत्वप्रयोजकस्य विशेषणज्ञानसहकृत-विशेष्येन्द्रियसन्निकर्षजन्यत्वस्य तत्राऽभावाद् न तस्य प्रत्यक्षत्वम्, किन्तु तदतिरिक्तत्वमेवेति तस्य प्रमाणान्तरप्रत्यभिज्ञानत्वव्यवस्थितौ 'सोऽयं घट'इत्यस्याऽपि प्रमाणान्तरप्रत्यभिज्ञानत्वमेवेति ।
___ स एवाऽयं घटः' इत्यादौ विशेष्यीभूतघटांशे चक्षुरादीन्द्रियसन्निकर्षसत्त्वात् तत्तारूपविशेषणविषयकस्मृतिरूपज्ञानबलेन प्रत्यभिज्ञानं विशिष्टविषयकमेव प्रत्यक्षजातीयं भवितुमर्हतीति नैयायिकविशेषमतमाशङ्क्य निराकरोति ‘एतेन' इत्यादिना ।
'एतत्सदृशः'-'स एवाऽयं घटः' इत्यादौ विशेष्यांशे इन्द्रियसन्निकर्षसत्त्वेऽपि यत्र न पुरोवर्तिनो विशेष्यत्वं यथा 'एतत्सदृशः' इत्यादिस्थले, किन्तु तस्य विशेषणत्वम्, तत्र विशेष्येन्द्रियसन्निकर्षाभावेन विशेषणज्ञानसहकृतविशेष्येन्द्रियसन्निकर्षजन्यत्वस्याऽपि दुष्कल्पत्वात् न विशिष्टप्रत्यक्षजातीयत्वं समुचितमिति भावः ।