________________
१०४
सटीकजैनतर्कभाषायां दर्शनकालेऽप्युत्पत्तिप्रसङ्गात् ।
। अन्यथा प्रत्यभिज्ञानस्येन्द्रियजन्यत्वे, प्रथमव्यक्तिदर्शनकाले यत्कालात् पूर्व यद्व्यक्तेर्दर्शनं नाऽभूदथ च तत्काले तद्व्यक्तेर्दर्शनमजनि, तत्काले एव, उत्पत्तिप्रसङ्गात्प्रत्यभिज्ञानोत्पत्तिप्रसङ्गात् । साक्षादिन्द्रियसन्निकर्षजन्यमेव तद् भवतेष्यते, इन्द्रियसन्निकर्षश्च तदानीमपि समस्त्येव ।
प्रथमदर्शनसमये प्रत्यभिज्ञानोत्पत्तिवारणाय नैयायिकः स्वमन्तव्यं प्रकटयति
अथ पुनदर्शने पूर्वदर्शनाहितसंस्कारप्रबोधोत्पन्नस्मृतिसहायमिन्द्रियं प्रत्यभिज्ञानमुत्पादयतीत्युच्यते,
__ प्रथमव्यक्तिदर्शनकाले चैवं सति न प्रत्यभिज्ञानोत्पत्तिप्रसङ्गः । ततः पूर्वं तद्दर्शनस्याऽभावेन तज्जनितसंस्काराभावे तत्प्रबोधस्याऽभावतः तज्जन्यस्मृतेरभावे तद्रूपसहकारिणोऽभावाद् नेन्द्रियं तदानीं प्रत्यभिज्ञानमुत्पादयितुमलमित्यर्थः ।
___स्मृतिनिरपेक्षेन्द्रियजन्यत्वमेव प्रत्यक्षत्वे प्रयोजकमिति न स्मृतिरिन्द्रियस्य सहकारिणी। यदि च स्मृतिसहकारेणेन्द्रियस्य प्रत्यक्षजनकत्वमभ्युपगम्येत, तदा मन एव व्याप्तिस्मरणलक्षणं सहकारिणमासाद्य 'पर्वतो वह्निमा'निति ज्ञानं कुर्यादितीन्द्रियजन्यत्वात् तदपि ज्ञानं प्रत्यक्षं भवेदित्यनुमानमपि प्रमाणान्तरं न स्यादिति समाधत्ते
__ तदनुचितम्, प्रत्यक्षस्य स्मृतिनिरपेक्षत्वात् । अन्यथा पर्वते वह्निज्ञानस्याऽपि व्याप्तिस्मरणादिसापेक्षमनसैवोपपत्तौ अनुमानस्याऽप्युच्छेदप्रसङ्गात् ।
तदनुचितमिति । उक्तकल्पनं नैयायिकस्य न समीचीनमित्यर्थः । अन्यथा प्रत्यक्षस्य स्मृतिसापेक्षत्वाभ्युपगमे ।
यथा च प्रत्यक्षस्य प्रतीति: 'साक्षात्करोमी'त्येवंरूपा, ततो विलक्षणा चाऽनुमानस्य 'अनुमिनोमी'त्येवंरूपेति प्रत्यक्षाद् व्यतिरिक्ताऽनुमितिरिष्यते, तथा प्रत्यभिज्ञानस्याऽपि प्रत्यक्ष
स्मरणाभ्याम् इन्द्रियसंसर्गस्य व्यवहितत्वात् साक्षात् तज्जन्यत्वाभावेन प्रत्यभिज्ञानस्य न प्रत्यक्षत्वं कल्पनाहमित्यभिप्रायेण दूषयति 'तन्न' इत्यादिना ।
___ 'अनुमानस्याऽपि'-अयं भावः-यदि स्मृतिमपेक्ष्य चक्षुरादिबहिरिन्द्रियं स एवाऽयं घटः' इत्यादिरूपं प्रत्यक्षजातीयमेव प्रत्यभिज्ञानं जनयेत् तदा तुल्ययुक्त्या व्याप्तिस्मृत्यादिसापेक्षमेव अन्तरिन्द्रियं पक्षे साध्यवत्ताज्ञानं प्रत्यक्षजातीयमेव जनयेत्, तथा च प्रत्यभिज्ञानवद् अनुमितेरपि प्रत्यक्षजातीयताप्रसञ्जनेन सिद्धान्तसम्मतस्य अनुमानप्रमाणपार्थक्यस्य विच्छेदापत्तिः ।