________________
प्रत्यभिज्ञानसम्बन्धिमतान्तरखण्डनम्
१०३ __ अत एवेति । पूर्वापरविवर्तवत्यैकद्रव्यस्य विशिष्टस्य प्रत्यभिज्ञानविषयत्वादेवेत्यर्थः । अस्य निरस्तमित्यनेनाऽन्वयः । अगृहीतासंसर्गकं-तत्ताविशिष्टेन सह इदन्ताविशिष्टस्याऽसंसर्गोऽभेदाभावलक्षणो न गृहीतो येन तथाभूतम् । एतत्='सोऽय'मिति प्रत्यभिज्ञानम् । विशिष्टज्ञानस्याऽगृहीतासंसर्गकज्ञानद्वयरूपतयोपपादने प्रत्यभिज्ञानवद् ‘घटवद् भूतल'मिति ज्ञानानामपि तथैवोपपादनसम्भवाद् विशिष्टज्ञानमात्रमुच्छिद्यतेत्याह-इत्थं सतीति । विशिष्टज्ञानरूपस्याऽपि प्रत्यभिज्ञानस्य निरुक्तज्ञानद्वयरूपत्वे सतीत्यर्थः ।
प्रत्यभिज्ञानमिन्द्रियसन्निकर्षजन्यत्वात् प्रत्यक्षमेव, तत्तांशे इन्द्रियसंयुक्तमनस्संयुक्तात्मसमवेतसविषयकरूपो ज्ञानलक्षणालौकिकसन्निकर्ष:, इदमंशे च संयोगादिलक्षण-लौकिकसन्निकर्षः । उद्बुद्धसंस्कारादेव प्रत्यभिज्ञानाभ्युपगमेऽलौकिकसन्निकर्षः संस्काररूप:२, स्मरणोत्तरं तदभ्युपगमे स्मरणमेवाऽलौकिकसन्निकर्षः इति प्रत्यभिज्ञानं न प्रमाणान्तरमिति नैयायिकमतं प्रतिक्षेप्तुमुपन्यस्यति
तथापि-अक्षान्वयव्यतिरेकानुविधायित्वात् प्रत्यक्षरूपमेवेदं युक्तम्-इति केचित्,
तथापीति । प्रत्यभिज्ञानस्य विशिष्टरूपत्वेऽपीत्यर्थः । अक्षेति । चक्षुरादीन्द्रियसन्निकर्षे सति प्रत्यभिज्ञानोत्पादः, तदभावे प्रत्यभिज्ञानानुत्पाद इत्येवमक्षेण सह प्रत्यभिज्ञानस्याऽन्वयव्यतिरेकयोरनुविधानात् । इदं='सोऽयं घट' इत्यादि प्रत्यभिज्ञानम् ।
प्रत्यभिज्ञानस्य साक्षात् 'स' इति स्मरणम् 'अय'मिति च यत् प्रत्यक्षं, ताभ्यां सममेवाऽन्वयव्यतिरेकानुविधानम्, न तु साक्षादिन्द्रियेण सहेति नाऽस्य प्रत्यक्षत्वम्, अनुभवस्मरणहेतुकत्वेन प्रमाणान्तरत्वमेवेति प्रतिक्षिपति
तन्न, साक्षादक्षान्वयव्यतिरेकानुविधायित्वस्याऽसिद्धेः, प्रत्यभिज्ञानस्य साक्षात् प्रत्यक्षस्मरणान्वयव्यतिरेकानुविधायित्वेनाऽनुभूयमानत्वाद्, अन्यथा प्रथमव्यक्ति
प्रत्यभिज्ञानस्य प्रत्यक्षत्वमेव, न तु तद्व्यतिरिक्तज्ञानत्वमिति नैयायिकमतमाशङ्कते 'तथापि अक्षान्वय' इत्यादिना । ।
प्रत्यभिज्ञानस्य इन्द्रियसम्बन्धपश्चाद्भावित्वेऽपि न साक्षात् तत्सम्बन्धान्वयव्यतिरेकानुविधानम्, किन्तु साक्षात् प्रत्यक्षस्मरणान्वयव्यतिरेकानुविधानमेव इति प्रत्यभिज्ञानोत्पत्तौ प्रत्यक्ष
१-३. इदमंशे संयोगादिलौकिकसन्निकर्ष इति निश्चप्रचम् । तत्तांशे पक्षत्रयं १. तत्तांशज्ञानात् तत्तांशभानम् २.
तत्तांशसंस्कारोबोधनात् ३. तत्तांशस्मरणात् । आद्ये इन्द्रियसंयुक्तमनःसंयुक्तात्मसमवेतज्ञानविषयत्व (=ज्ञानलक्षणालौकिकसन्निकर्ष) सम्बन्धः, द्वितीये तृतीये च ज्ञानस्थाने क्रमशः संस्कारं स्मरणं च निवेश्य स एव सम्बन्धो ज्ञेयः।