________________
१०२
सटीकजैनतर्कभाषायां 'स'इति स्मरणविषयः 'अय'मिति च प्रत्यक्षविषयः । तदुभयभिन्नं तु नाऽस्त्येव प्रत्यभिज्ञानस्य विषय इति विषयाभावे विषयिणोऽपि ज्ञानस्याऽभाव इति बौद्धः शङ्कते
विषयाभावान्नेदमस्तीति चेद्, इदं-प्रत्यभिज्ञानम् ।
पूर्वापरकालवर्तिनोः पर्याययोरनुगामि यद् द्रव्यं तद् न स्मरणस्य विषयो, नाऽपि प्रत्यक्षस्य विषय इति तदेव द्रव्यं प्रत्यभिज्ञानस्य विषयः, तद् द्रव्यं चाऽभेदस्वरूपं पूर्वापरपर्यायविशिष्टं सत् प्रत्यभिज्ञाने भासते इत्यतिरिक्तविषयकत्वाद् भवति प्रत्यभिज्ञानं प्रमाणमिति समाधत्ते
न, पूर्वापरविवर्तवत्यैकद्रव्यस्य विशिष्टस्यैतद्विषयत्वात् ।। पूर्वापरविवर्तवर्ती-पूर्वापरपर्यायानुगामी । एतद्विषयत्वात्-प्रत्यभिज्ञानविषयत्वात् ।
भेदाख्यातिवादी प्रभाकरस्तु 'शुक्ताविदं रजत'मित्यादि-विशिष्टज्ञानलक्षण-भ्रममपलपन्, सर्वस्य ज्ञानस्य याथार्थ्यमेवोररीकुर्वन्, भ्रमस्थले-'इद'मिति ज्ञानं प्रत्यक्षं 'रजत'मिति ज्ञानं च स्मरणमित्यभ्युपेत्य तयोर्भेदाग्रहादेव विसंवादिप्रवृत्तिरिति मन्यमानः, प्रत्यभिज्ञानस्थलेऽपि 'स'इति स्मरणस्य 'अय'मिति प्रत्यक्षस्य विषयेण सहाऽसंसर्गाग्रहादेव प्रत्यभिज्ञानकार्यसम्भवात्, स्मरणप्रत्यक्षरूपज्ञानद्वयव्यतिरिक्तं विशिष्टज्ञानरूपं प्रत्यभिज्ञानं नाऽस्त्येवेति प्रलपति । तन्मतमपि प्रत्यभिज्ञानस्य पूर्वापरपर्यायानुगामिद्रव्यविषयकत्वव्यवस्थापनतो निरस्तमित्याह
अत एव-अगृहीतासंसर्गकमनुभवस्मृतिरूपं ज्ञानद्वयमेवैतद्-इति निरस्तम्, इत्थं सति विशिष्टज्ञानमात्रोच्छेदापत्तेः ।
प्राभाकरा हि सर्वस्याऽपि ज्ञानस्य यथार्थत्वं मन्यमानाः 'शुक्तौ इदं रजतम्' इत्यादिप्रसिद्धभ्रमस्थलेऽपि स्मृतिप्रत्यक्षरूपे द्वे ज्ञाने तयोश्च विवेकाख्यातिपरपर्यायं भेदाग्रहं कल्पयित्वा सर्वज्ञानयथार्थत्वगोचरं स्वकीयं सिद्धान्तं समर्थयमानाः तुल्ययुक्त्या प्रत्यभिज्ञास्थलेऽपि अगृहीतभेदं स्मृतिप्रत्यक्षरूपं ज्ञानद्वयमेव कल्पयन्ति इति तेषामपि कल्पना अत्र निरास्यत्वेन 'अत एव' इत्यादिना निर्दिष्टा । ___यदि च सर्वज्ञानयथार्थत्वसिद्धान्तानुरोधेन भ्रमस्थले प्रत्यभिज्ञास्थले च ज्ञानद्वयमेव अभ्युपगम्यते न किञ्चिदेकं ज्ञानम्, तदा विशिष्टज्ञानस्याऽपि अनङ्गीकार एव श्रेयान्, सर्वस्याऽपि हि विशिष्टज्ञानस्य विशेष्यज्ञान-विशेषणज्ञानोभयपूर्वकत्वनियमेन अवश्यक्तृप्ततदुभयज्ञानेनैव अगृहीतभेदमहिम्ना विशिष्टबुद्ध्युपपादने तदुभयज्ञानव्यतिरिक्तस्य तदुत्तरकालवतिनो विशिष्टज्ञानस्य कल्पने गौरवाद् इत्यभिप्रायेण प्राभाकरमतं दूषयति-'इत्थं सति' इत्यादिना ।