________________
प्रत्यभिज्ञानम्
१०१ स एवाऽनेनाऽर्थः कथ्यते इत्यपि, पूर्वपुरुषकथितार्थेन सहैतत्पुरुषकथितार्थस्य जात्याऽभेदे तिर्यक्सामान्यावगाहि, २व्यक्त्याऽभेदे तु पर्यायतो भेदस्याऽवश्यंभावत ऊर्ध्वतासामान्यबलादेवाऽभेद इत्यूचंतासामान्यावगाहि प्रत्यभिज्ञानमिति ।
'को महिष'इति कस्यचिद् जिज्ञासायां 'यदेतद् गवां कदम्बके गोभ्यो विलक्षणः, स महिष' इति ज्ञानमुत्पद्यते तद् वैलक्षण्यावगाहि प्रत्यभिज्ञानमित्याह-गोविलक्षणो महिष इति । अन्यदाऽपि च केवलमहिषव्यक्तिदर्शने गवां च स्मरणे जायमानं 'गोविलक्षणो महिष' इति ज्ञानमनुभवस्मृतिहेतुकत्वात् प्रत्यभिज्ञानमवगन्तव्यम् ।
यदपेक्षया यद् दूरं तस्य स्मरणे सत्येव, दूरस्थवस्तुनोऽनुभवे सति 'इदं तस्माद् दूर'मितिज्ञानमुत्पद्यते इत्यतोऽनुभवस्मृतिहेतुकत्वात् तत् प्रत्यभिज्ञानमवसेयम् । 'इदं तस्मात् समीप'मित्यादिज्ञानेऽप्युक्तदिशा प्रत्यभिज्ञानता भावनीया ।
यश्च बौद्धः प्रत्यभिज्ञानस्य प्रामाण्यं नाऽभ्युपगच्छति, तन्मतं प्रतिक्षेप्तुमुपन्यस्यतितत्तेदन्तारूपस्पष्टास्पष्टाकारभेदाद् नैकं प्रत्यभिज्ञानस्वरूपमस्तीति शाक्यः,
'सोऽय'मित्यत्र 'स'इत्यनेन तत्तारूपोऽस्पष्टाकारः, 'अय'मित्यनेनेदन्तारूपस्पष्टाकारश्चाऽवभासते, स्पष्टास्पष्टाकारयोश्च विरोधाद् नैकत्र ज्ञाने सम्भव इति 'स'इति ज्ञानं पृथग् 'अय'मिति ज्ञानं च पृथगिति 'सोऽय'मित्येकज्ञानस्य प्रत्यभिज्ञानतयाऽभिमतस्याऽभावादेव न प्रामाण्यसम्भव इति बौद्धाभिप्रायः ।
अनुभूयमानस्याऽपलापो न सम्भवति, यथा तव मते आकाराकारिणोरभेदाद् ज्ञानान्तरं विभिन्नाकारं विभिन्नमेव, अथाऽपि नीलपीतेत्याकारकमेकं चित्रज्ञानमाकारभेदेऽपि स्वीकरणीयमेवेति समाधत्ते
तन्न, आकारभेदेऽपि चित्रज्ञानवदेकस्य तस्याऽनुभूयमानत्वात्, स्वसामग्रीप्रभवस्याऽस्य वस्तुतोऽस्पष्टैकरूपत्वाच्च, इदन्तोल्लेखस्य प्रत्यभिज्ञानिबन्धनत्वात् ।
तस्य='सोऽय'मितिज्ञानस्य । अथवा 'सोऽय'मितिज्ञानमस्पष्टैकरूपमेवेति नाऽऽकारभेदः, इदन्तोल्लेखश्च स्मृतिस्वरूपव्यावृत्तिकृतं प्रत्यभिज्ञानस्वाभाव्यनिबन्धनमेव । प्रत्यभिज्ञानसामग्री च अनुभवस्मृतिघटितस्वावरणक्षयोपशमरूपाऽस्पष्टतत्स्वरूपजनिकैवेति न स्पष्टतासम्भव इत्याह-स्वसामग्रीति । अस्य-प्रत्यभिज्ञानस्य ।
१. द्वे अर्थव्यक्ती, अर्थत्वेन तयोरभेद इत्यभ्युपगमे । २. एकैवाऽर्थव्यक्तिरुभयपर्यायानुगतेति विवक्षणे ।