________________
१००
सटीकजैनतर्कभाषायां प्रत्यभिज्ञानमिति लक्ष्यनिर्देशः, सङ्कलनात्मकं ज्ञानमिति लक्षणनिर्देशः । अनुभवस्मरणाभ्यां सम्भूय सङ्कलनात्मकमेकं ज्ञानं जन्यते इति अनुभवस्मृतिहेतुकमिति कारणनिर्देशः । तिर्यगूर्ध्वतासामान्यादिगोचरमिति विषयकथनम् ।
अनुभवस्मरणविषययोः तादात्म्यादिसम्बन्धेन विशेषणविशेष्यभावेनाऽवगाहि ज्ञानं प्रत्यभिज्ञानम् । तच्च 'अयं घट'इत्यादिर्यो वर्तमानविषयकोऽनुभवः, ‘स घट'इत्यादिकं यत् पूर्वानुभूतार्थस्मरणम्, ताभ्यां जन्यते इत्यनुभवस्मृतिहेतुकम् । किञ्चित् प्रत्यभिज्ञानं तिर्यक्सामान्यगोचरम्, किञ्चिच्च ऊर्ध्वतासामान्यगोचरम् । आदिपदात् सादृश्य-वैलक्षण्य-दूरत्वसमीपत्व-प्रांशुत्व-हस्वत्वादिसनिरूपकधर्माणामुपग्रहः, तेन सादृश्यादिगोचरमपि ज्ञानं प्रत्यभिज्ञानमित्यर्थः । अत्र विभिन्नदेशकालस्थितानां घटादिव्यक्तीनां सदृशाकारपरिणामलक्षणं घटत्वादिसामान्यं तिर्यक्सामान्यम्, कुण्डलकटकादिपूर्वापरपर्यायानुगामिसुवर्णादिद्रव्यं च ऊर्ध्वतासामान्यमिति विवेकः ।
उदाहरति
यथा-'तज्जातीय एवाऽयं गोपिण्डः' 'गोसदृशो गवयः', 'स एवाऽयं जिनदत्तः, 'स एवाऽनेनाऽर्थः कथ्यते', 'गोविलक्षणो महिषः', 'इदं तस्माद् दूरम्, 'इदं तस्मात् समीपम्', 'इदं तस्मात् प्रांशु इस्वं वा' इत्यादि ।
तज्जातीय एवाऽयं गोपिण्ड इति तिर्यक्सामान्यावगाहि प्रत्यभिज्ञानम्-एको गोपिण्ड: पूर्वमुपलब्धः, अनन्तरं यदाकदापि द्वितीयो गोपिण्डो दृश्यते, तदानीं पूर्वानुभूतां गोव्यक्ति स्मरतः पुंसः 'तज्जातीय एवाऽयं गोपिण्ड' इति ज्ञानमुपजायते, तच्च ज्ञानं पूर्वानुभूतगोव्यक्तिगतसमानाकारपरिणामलक्षणगोत्वजातिमत्त्वं पुरोवर्तिन्यां गोव्यक्ताववगाहते इति ।
गोसदृशो गवय इत्यपि प्रत्यभिज्ञानं गोत्वातिरिक्त-पूर्वानुभूतगोव्यक्तिगतकतिपयसमानाकारलक्षणतिर्यक्सामान्यवत्त्व-प्रयोज्यसादृश्यवत्त्वमेव गवये वर्तमानानुभवविषयेऽवगाहते इति तिर्यक्सामान्यावगाह्येव सत् सादृश्यावगाहि प्रत्यभिज्ञानम् ।
स एवाऽयं जिनदत्त इति तु ऊर्ध्वतासामान्यावगाहि प्रत्यभिज्ञानम्, यतो बाल्यावस्थाकलितो जिनदत्तः पूर्वमनुभूतः, स एव युवा पुनरिदानीमनुभवपदवीमुपगतः, ततः पूर्वदृष्टं बालं तं स्मरतः, इदानीं युवानं पश्यतः पुंसः स एवाऽयं जिनदत्त इति ज्ञानं भवति, अवयवोपचयापचयाभ्यां च न बालयुवशरीरयोरैक्यमिति तच्छरीरद्वयानुगाम्येकजिनदत्तशरीरद्रव्यरूपोर्ध्वतासामान्यम्, यदवलम्बनेनैक्यावगायुक्तज्ञानमिति । अनयैव दिशा ‘स एवाऽयं घटः, स एवाऽयं पट' इत्यादिप्रत्यभिज्ञानानामप्यूर्ध्वतासामान्यावगाहित्वं विभावनीयम् ।