________________
स्मृतेः प्रमात्वस्य साधनम्
९९
व्याप्तिज्ञानविषयीकृत-व्यापकीभूतसाध्यविषयकत्वादनुमितेरपि न स्वविषयपरिच्छेदे स्वातन्त्र्यमिति साऽपि प्रमा न भवेदिति समाधत्ते
तर्हि व्याप्तिज्ञानादिविषयीकृतानर्थान् परिच्छिन्दत्या अनुमितेरपि प्रामाण्यं दूरत एव । ननु 'यो यो धूमवान् स स वह्निमा' निति व्याप्तिज्ञाने सामान्येनैव धूमाधिकरणे सामान्यत एव वह्निर्भासते, अनुमितौ तु विशेषतो धूमाधिकरणे पर्वतरूपपक्षे पर्वतीयो वह्निर्भासते । तथा व्याप्तिज्ञाने वह्निसम्बन्धतया संयोग एव भासते, अनुमितौ तु पक्षतावच्छेदकपर्वतत्वव्यापकवह्निप्रतियोगिकसंयोगो वह्नेर्भासते - इति न व्याप्तिगृहीतमात्रस्याऽनुमितौ भानमिति विषयपरिच्छेदे स्वातन्त्र्यमस्त्येवाऽनुमितेरिति शङ्कते -
नैयत्येनाऽभात एवाऽर्थोऽनुमित्या विषयीक्रियते इति चेत्,
नैयत्येनेति । प्रतिनियतपर्वतत्वादिरूपपक्षतावच्छेकरूपेण पक्षतावच्छेदकव्यापकविधेयप्रतियोगिकसंयोगत्वादिरूपेण चेत्यर्थः । अभात एव = व्याप्तिज्ञानेऽप्रतिभात एव, अर्थ:= पर्वतादिः, अनुमित्या= पर्वतो वह्निमानित्याद्यनुमित्या ।
'अयं घट' इत्यनुभवे इदन्तैव भासते, न तु पूर्वकालवृत्तित्वरूपा तत्तेति तद्रूपेणाऽनुभवेऽप्रतिभात एव घटादिरर्थः 'स घट' इति स्मृत्या विषयीक्रियते इति स्मृतेरपि स्वविषयपरिच्छेदे स्वातन्त्र्यं समानमेवेति समाधत्ते -
तर्हि तत्तयाऽभात एवाऽर्थः स्मृत्या विषयीक्रियते इति तुल्यमिति न किञ्चिदेतत् । न किञ्चिदेतदिति । स्मृतेः पारतन्त्र्याद् न प्रामाण्यमिति न समीचीनमित्यर्थः । प्रत्यभिज्ञाननिरूपणम्
प्रत्यभिज्ञानं निरूपयति
अनुभवस्मृतिहेतुकं तिर्यगूर्ध्वतासामान्यादिगोचरं सङ्कलनात्मकं ज्ञानं प्रत्यभि
ज्ञानम् ।
अनुमित्याः स्मृतेर्वैलक्षण्यमुपपादयितुमाह-'नैयत्येन' इति । तथा च अनुमितिकारणीभूते व्याप्तिज्ञाने हेतुज्ञाने वा यः पक्षतावच्छेदकरूपो वा तद्व्यापकसाध्यप्रतियोगिकसंसर्गरूपो वा अर्थः अवश्यंतया न भासते सोऽपि अनुमितेर्विषय इति तस्याः स्वविषयपरिच्छेदे स्वातन्त्र्यमिति पूर्वपक्षार्थः ।
तुल्ययुक्त्या समाधत्ते - ' तर्हि ' इत्यादिना । तथा च पूर्वम् अनुभवेन विषयीकृतस्याऽपि अर्थस्य तत्तया अनवगाहनात्, स्मृत्या च अनुभूतस्याऽपि तस्यैव अर्थस्य तत्तया अवगाहनात्, तस्या अपि अनुमितिवत् विषयपरिच्छेदे स्वातन्त्र्यमबाधितमेव इति भावः ।