________________
९८
व्याप्तेः - न सम्भवति ।
=
एवं च यथार्थानुभवः= अबाधितार्थग्राह्यनुभवो, मानं प्रमा । स्मृतेर्यथार्थत्वेऽपि, 'अनुभवे प्रमाणे सत्येव तज्जन्या स्मृतिः प्रमा, नाऽन्यथे 'ति स्वप्रामाण्ये स्वकरणीभूतस्य प्रामाण्यापेक्षणाद् वस्तुगत्या न प्रामाण्यमिति तद्व्यावृत्तये प्रमालक्षणेऽनुभवत्वं निवेश्यते । अनपेक्षतयैव चाऽनुभवो मानमिष्यते इति । ततश्च स्मृतिर्न प्रमाणमित्याशङ्कते -
अनुभवप्रमात्वपारतन्त्र्यादत्राऽप्रमात्वमिति चेद्,
सटीकजैनतर्कभाषायां
अत्र - स्मरणे ।
स्वप्रमात्वेऽन्यदीयप्रमात्वनिरपेक्षत्वे सत्येव यदि प्रामाण्यमिष्यते, तदाऽनुमितिरपि प्रमा न भवेत् — साऽपि प्रमात्मकव्याप्तिज्ञानजन्यैव प्रमेति स्वप्रामाण्ये व्यातिज्ञानप्रामाण्यापेक्षणादित्यापत्तिमुखेन समाधत्ते
न, अनुमितेरपि व्याप्तिज्ञानादिप्रमात्वपारतन्त्र्येणाऽप्रमात्वप्रसङ्गात् । आदिपदात् परामर्शपरिग्रहः ।
व्याप्तिज्ञानस्याऽनुमित्युत्पत्तावेवाऽपेक्षा, न त्वनुमितौ विषयप्रतिभासे इति स्वविषयप्रतिभासेऽनुमितेरन्यमुखनिरीक्षकत्वाभावात् प्रामाण्यमिति शङ्कते -
अनुमितेरुत्पत्तौ परापेक्षा, विषयपरिच्छेदे तु स्वातन्त्र्यमिति चेद्,
चेत्,
परापेक्षा=व्याप्तिज्ञानाद्यपेक्षा ।
तदेतत् प्रकृतेऽपि तुल्यमिति समाधत्ते
न, स्मृतेरप्युत्पत्तावेवाऽनुभवसव्यपेक्षत्वात्, स्वविषयपरिच्छेदे तु स्वातन्त्र्यात् । उक्तप्रतिविधानमसहमान: परः शङ्कते -
अनुभवविषयीकृतभावावभासिन्याः स्मृतेर्विषयपरिच्छेदेऽपि न स्वातन्त्र्यमिति
यद्यनुभवविषयीकृतभावविषयकत्वात् स्मृतेर्न स्वविषयपरिच्छेदे स्वातन्त्र्यम्, ि
अन्यदीयप्रमाणत्वनिरपेक्षत्वे सत्येव प्रमात्वस्य प्रमाव्यवहारप्रयोजकतया स्मृतेर्यथार्थत्वेऽपि अनुभवप्रमात्वाधीनप्रमात्वशालितया न प्रमात्वमिति उदयनाचार्यादिभिस्समर्थितं (न्यायकु० ४.१) स्मृत्यप्रमात्वमाशङ्कते 'अनुभवप्रमात्वपारतन्त्र्यात्' इत्यादिना ।
प्रतिबन्द्या अनुमितेरप्रमात्वापादनेन निराकरोति 'अनुमितेरपि ' इत्यादिना ।