________________
२७
स्मृतेः प्रमात्वस्य साधनम्
इदं-स्मरणम् ।
यत्र विशेषणस्य सुखादेविशेष्यकालवृत्तित्वं सुखीत्यादौ-तत्र विशेषणे विशेष्यकालवृत्तित्वस्य भानेऽपि, सर्वत्र विशेषणे विशेष्यकालवृत्तित्वभाने मानाभावाद्, विशेषणे सर्वत्र विशेष्यकालनियमः परेषां नियुक्तिकत्वाद् नोपादेय इति तत्तांशे वर्तमानकालवृत्तित्वमविषयीकृत्याऽपि ‘स घट' इति स्मृतिर्भवन्ती न निरोद्धं शक्येति तस्या अबाधितार्थविषयकत्वात् प्रामाण्यं स्यादेवेति समाधत्ते
न, सर्वत्र विशेषणे विशेष्यकालभानानियमात् ।
वस्तुतः ‘स घट' इत्येव स्मरणम्, न तु ‘स घटोऽस्ती'ति । तथा च वर्तमानकालवृत्तित्वं विशेष्यांशेऽपि स्मृतिर्नाऽवगाहते एवेति कुतः तस्या विशेषणांशे तदवगाहित्ववार्ताऽपीति । कुसुमाञ्जलौ चतुर्थस्तबके उदयनाचार्येणोक्तं
'अव्याप्तेरधिकव्याप्तेरलक्षणमपूर्वदृग् ।
यथार्थानुभवो मानमनपेक्षतयेष्यते ॥' इति । (४.१) तस्याऽयमर्थः-अपूर्वदृग् अनधिगतार्थाधिगन्तृ ज्ञानम्, अलक्षणं प्रमाया लक्षणं न भवति । लक्षणं हि अव्याप्त्यतिव्याप्त्यसम्भवदोषरहितं सद् भवितुमर्हति । तत्र-अव्याप्तिःलक्ष्यैकदेशे लक्षणस्याऽगमनं, यथा गो: शाबलेयत्वं लक्षणं कृतं चेत् तस्य लक्ष्यैकदेशे बाहुलेये गव्यसत्त्वेनाऽव्याप्तिदोषः । अलक्ष्ये लक्षणगमनमतिव्याप्तिः, यथा गोः शृङ्गित्वम्, तस्य अलक्ष्ये महिषे सत्त्वेनाऽतिव्याप्तिदोषः । लक्ष्यमात्रे लक्षणागमनमसम्भवः, यथा गोरेकशफवत्त्वं, गोमात्रस्य खुरद्धयवत्त्वेन एकखुरवत्त्वस्य गोमात्रे एवाऽभावादसम्भवः ।
__मीमांसकोक्तमपि अनधिगतार्थाधिगन्तृज्ञानत्वं प्रमाया लक्षणं-१. यत्र घटे चक्षुस्सन्निकर्षस्य चिरमवस्थाने 'अयं घटः, अयं घटः' इत्येवं ज्ञानधारा जायते, तत्र धारावाहिकज्ञाने पूर्वपूर्वज्ञानगृहीतस्यैव घटस्योत्तरोत्तरज्ञानेनाऽवगाहनाद, गृहीतग्राहित्वेनाऽगृहीतग्राहित्वस्याऽभावादव्याप्तेः २. भ्रमे चेदं रजतमिति ज्ञाने पूर्वज्ञानागृहीतस्य शुक्तौ रजतत्वस्य ग्राहित्वादतिशयनांशे भासमानतया क्वचित् विधेयांशे उद्देश्यसमानकालीनत्वस्य क्वचिच्च उद्देश्यतावच्छेदकसमानकालीनत्वस्य भानमिति सार्वत्रिको नियमः चिन्तामणिकारस्याभिप्रेतः । परन्तु 'ब्राह्मणः श्रमणः' इत्यादि स्थलीयशाब्दबोधे ब्राह्मणत्वांशे श्रमणाधिकरणवर्तमानकालवर्तित्वस्य श्रमणत्वाधिकरणतत्कालवर्तित्वस्य वा भानाभावात् नोक्तनियमस्य सार्वत्रिकत्वम् किन्तु प्रामाणिकप्रतीतिबलात् यत्र यत्र विधेयांशे उद्देश्यकालीनत्वं उद्देश्यतावच्छेदककालीनत्वं वा भासते तत्र तत्रैव उक्तनियमस्य प्रसरो न तु सर्वत्र इति ग्रन्थकाराभिप्रायः ।