________________
सटीकजैनतर्कभाषायां अविसंवादकत्वादिति । यया प्रवृत्त्याऽर्थप्राप्तिर्न भवति सा प्रवृत्तिविसंवादिनी, तस्या जनकं भ्रमात्मकं ज्ञानं विसंवादकम् , तादृशं यद् न भवति अर्थात् सत्यप्रवृत्तिजनकं ज्ञानमविसंवादकम् , तत्त्वादित्यर्थः । यस्मिन् मन्दिरे पूर्वमनुभूतं यत् तीर्थकरबिम्बम्, स्मृतौ सत्यां तद्देशगमने तत्र तत्तीर्थकरप्राप्तिर्भवतीत्यतो यथार्थप्रवृत्तिजनकत्वात् स्मरणं प्रमाणमेवेत्यर्थः । यथा च कस्यचित् प्रत्यक्षादेरयथार्थप्रवृत्तिजनकत्वेनाऽप्रमाण्येऽप्येतावता न तज्जातीयस्य सर्वस्य प्रत्यक्षादेरप्रामाण्यम्, तथैव कस्यचित् स्मरणस्य विसंवादकस्याऽप्रामाण्येऽपि बोध्यम् ।
ननु स घटोऽस्तीति स्मृतिरुपजायमाना दृश्यते, सा तद्देशकालवृत्तित्वरूपतत्ताविशिष्टघटे वर्तमानकालवृत्तित्वं बोधयन्ती न प्रमाणं-स्मृतस्य घटस्य विशेष्यीभूतस्य वर्तमानकालवृत्तित्वेऽपि, विशिष्टेऽपि तस्मिन् विशेषणीभूतायां वा तद्देशकालवृत्तित्वरूपायां तत्तायां वर्तमानकालवृत्तित्वस्य बाधादिति बाधितार्थविषयकत्वस्याऽप्रामाण्यनिबन्धनस्य तत्र भावादिति चिन्तामणिकारानुयायिनो नव्यनैयायिकाः प्रत्यवतिष्ठन्ते
अतीततत्तांशे वर्तमानत्वविषयत्वादप्रमाणमिदमिति चेद्,
न्याय-वैशेषिक-साङ्ख्य-योग-मीमांसा-बौद्धादिदर्शनानां स्मृतेरप्रमात्वं जैनदर्शनस्य पुनस्तस्याः प्रमात्वमभिमतम् । अत एव ग्रन्थकारेण अत्र स्मृत्यप्रमात्वसमर्थनपरां विविधां युक्ति निरसितुकामेन पूर्वं चिन्तामणिकारोपन्यस्ता स्मृत्ययथार्थत्वसमर्थिका युक्तिः समालोचयितुमुपक्रान्ता 'अतीततत्तांशे' इत्यादिना ।
चिन्तामणिकारो हि-"यद्वा स घटः इति स्मृतौ तत्ताविशिष्टस्य वर्तमानता भासते ।....तत्र विशेष्यस्य विशेषणस्य वा वर्तमानत्वाभावात् स्मृतिरयथार्थेव" [प्रत्यक्षचि० पृ० ८४५] इत्यादिना ग्रन्थेन ‘स घटोऽस्ति' इत्यादिस्मृतौ तद्देशकालवर्तित्वरूपतत्ताविशिष्टे विशेष्यभूते घटे तद्देशकालवर्तित्वरूपे तत्ताविशेषणे वा वर्तमानकालीनास्तित्वावगाहितया तत्र च तथाभूते विशिष्टे विशेषणे वा वर्तमानकालीनास्तित्वस्य बाधात् स्मृतेरयथार्थत्वं दर्शितवान् ।।
ग्रन्थकारस्तु चिन्तामणिकाराङ्गीकृतं विशेषणे विशेष्यकालभाननियम सार्वत्रिकत्वेन अनभ्युपगम्य तन्नियमबलेन चिन्तामणिकारसमर्थितं स्मृत्ययथार्थत्वमपाकरोति 'सर्वत्र विशेषणे विशेष्यकालभानानियमात्' इत्यादिना । तथा च ग्रन्थकारमते 'स घटः' इत्यादौ अतीततत्तांशे वर्तमानकालवर्तित्वस्य भानाभावात् एकस्मिन्नेव घटात्मके धर्मिणि अतीततत्तायाः वर्त्तमानकालवर्तित्वस्य च स्वातन्त्र्येणैव भानात् न स्मृतेरयथार्थत्वम् इति भावः ।।
अत्रेदमाकूतम्-'चैत्रो धनवान् वर्तते' इत्यादिस्थलीयशाब्दबोधे चैत्राधिकरणकालवर्तित्वस्य धनांशे, 'भुञ्जानाश्शेरते' इत्यादिस्थलीयशाब्दबोधे तु भोजनाधिकरणकालवर्तित्वस्य
१. तद्देशकालवृत्तित्वविशिष्टघटे इत्यर्थः ।