________________
९५
स्मृतिः सम्बन्धेन वर्त्तते । ज्ञानेन सह विषयगताया विषयताया निरूप्यनिरूपकभावः सम्बन्धः, तत्र विषयता ज्ञाननिरूपिता भवति, ज्ञानं च विषयतानिरूपकं भवति । तथा च निरूपकतासम्बन्धेन अस्पष्टताख्यविषयतावत्त्वम्, अस्पष्टताख्यविषयतानिरूपकत्वं वा परोक्षप्रमाणस्य लक्षणमिति भावः ।
परोक्षप्रमाणं विभजतेतच्च स्मरण-प्रत्यभिज्ञान-तर्का-ऽनुमाना-ऽऽगमभेदतः पञ्चप्रकारम् । तच्च-परोक्षप्रमाणं च । पञ्चसु परोक्षप्रकारेषु प्रथमोद्दिष्टं स्मृतिप्रमाणं निरूपयतिअनुभवमात्रजन्यं ज्ञानं स्मरणं, यथा तत् तीर्थकरबिम्बम् ।
अनुभवमात्रजन्यं ज्ञानमिति लक्षणनिर्देशः, स्मरणमिति लक्ष्यनिर्देशः । यद् वस्तुनः प्रथमत एव ज्ञानं तद् अनुभवः-प्रत्यक्षं, तर्कः, अनुमितिः, शाब्दबोधश्च । ततः पूर्वकालीनादुक्तस्वभावादनुभवाद् 'अयं घट'इत्याद्याकारकाद् यद् उत्तरकाले ‘स घट' इत्याद्याकारकं ज्ञानमनुभूतपदार्थविषयकं प्रादुर्भवति तत्राऽनुभव एव करणम् । अनुभवजन्या वासना च भावना-संस्कारापरनामधेया तत्राऽनुभवस्मरणमध्यकालवर्तिनी. अनुभवस्य व्यापारतया स्मरणे कारणमिति, करणतयाऽनुभवमात्रजन्यं ज्ञानं भवति स्मरणमिति लक्षणसमन्वयः ।
उक्तलक्षणलक्षितं स्मरणमुदाहरति-यथेति । पूर्वं तीर्थकर्तुजिनस्य प्रतिमाऽनुभूता, कालान्तरे कुतश्चित् कारणात् तद्विषयिण्या वासनया 'तत् तीर्थकरबिम्ब'मिति ज्ञानं भवति तद् ज्ञानं स्मरणमित्यर्थः ।
अनुभूतार्थमात्रविषयकत्वाद् अगृहीतग्राहित्वाभावेन स्मृतेर्न प्रामाण्यमिति मीमांसकादयः, विकल्परूपत्वाद् न प्रामाण्यमिति बौद्धाः, यथार्थानुभवस्यैवाऽन्यानपेक्षस्य प्रमात्वम्, स्मृतेस्तु अनुभवत्वाभावात् स्वप्रमाण्येऽनुभवप्रामाण्यापेक्षणात् स्वातन्त्र्याभावेन न प्रामाण्यमिति गौतमीया वैशेषिकाश्च । स्याद्वादिनो जैनास्तु स्मृतेः प्रामाण्यमभ्युपगच्छन्तीति तन्मतमाशक्य प्रतिक्षिपति
न चेदमप्रमाणं, प्रत्यक्षादिवद् अविसंवादकत्वात् ।
इदं स्मरणमप्रमाणमिति नाऽऽशङ्कनीयमित्यर्थः । प्रामाण्येऽबाधितार्थविषयकत्वमेव प्रयोजकम्, नाऽगृहीतग्राहित्वानुभवत्वादिकमपि । तच्चाऽविसंवादकत्वात् स्मरणेऽप्यस्तीति प्रत्यक्षादिवत् तदपि प्रमाणमेवेत्याह-प्रत्यक्षादिवदिति । 'आदि पदादनुमानादिपरिग्रहः ।