________________
सटीकजैनतर्कभाषायां __ जैनमते कार्मण-तैजस-वैक्रिय-आहारक-औदारिकभेदेन शरीरं पञ्चविधम् । तत्रज्ञानावरणीयाद्यष्टविधकर्मसमूहस्वरूपं कार्मणम् । तत्सहचरितमेव तैजसशरीरम्, यतः शरीरे औष्ण्योपलब्धिः । देवादीनां वैक्रियशरीरम्, यद्बलाद् यथेच्छति तथा शरीरमेषां भवति । आहारकलब्धिमतामाहारकशरीरमल्पकालस्थायि, यच्छरीरमुपादाय देशातरस्थितकेवलिभगवनिकटे स्वप्रश्नोत्तरावाप्त्यर्थं तूर्णं गच्छति, ततो झटित्येवाऽऽगत्य तत् शरीरं मुञ्चति । दृश्यमानं चेदं शरीरमौदारिकम्, एतस्य शरीरस्य स्थितिः कवलाहारबलादेवाऽस्मदादीनां दृष्टेति औदारिकशरीरस्थिति प्रति कवलाहारस्य सामान्यत एव कार्यकारणभावस्य निर्णीतत्वेन कवलाहाररूपकारणं विना के वलिन औदारिकशरीरस्थितिरूपकार्यं कथं स्याद् ? न स्यादेवेत्यर्थः ।
यदि चाऽस्मदादीनामाहारमन्तरेण शरीरधारणे सामर्थ्यविशेषलक्षणवीर्यं नाऽस्तीति कवलाहारापेक्षा, केवली तु भगवाननन्तवीर्य इति वीर्यविशेषबलादेव तदौदारिकशरीरस्थितिः सम्भवतीति न तत्र कवलाहारापेक्षेति भवत्समीहितम्, तर्हि केवलाज्ञानात् पूर्वमपि तस्याऽपरिमितबलत्वमागमे भणितमिति तद्बलात् छद्मस्थावस्थायां केवलज्ञानोत्पत्तितः प्राक्कालीनायामपि कवलाहारः तस्य न स्यादेव-तं विनाऽपि तदीयशरीरस्थितिसम्भवादित्याह
अनन्तवीर्यत्वेन तां विना तदुपपत्तौ छद्मस्थावस्थायामप्यपरिमितबलत्वश्रवणाद् भुक्त्यभावः स्यादित्यन्यत्र विस्तरः ।
तां विना-कवलभुक्तिमन्तरेण, तदुपपत्तौ-भगवत औदारिकशरीरस्थितिसमभवे । इत्थं निरूपितं प्रत्यक्षप्रमाणमुपसंहरतिउक्तं प्रत्यक्षम् ।
परोक्षप्रमाणेष्वाद्यायाः स्मृतेर्निरूपणम् अथ परोक्षप्रमाणनिरूपणमधिकरोतिअथ परोक्षमुच्यते-अस्पष्टं परोक्षम् । अस्पष्टमिति लक्षणनिर्देशः, परोक्षमिति लक्ष्यनिर्देशः ।
अस्पष्टता च प्रत्यक्षतोऽल्पतरविशेषप्रकाशनम्, अस्पष्टं जानामीत्यनुभवसिद्धो विषयताविशेषो वा । यस्य ज्ञानं स विषयः, तद्विषयकं च ज्ञानम् । विषये विषयता स्वरूप१. इन्द्रकोटीरपि तीर्थकृतोऽङ्गुष्ठचालने समर्था न भवतीत्यादिना । २. यस्यामवस्थायां केवलज्ञानं आवृतं भवति साऽवस्था छद्मस्थेत्युच्यते ।