________________
९३
केवलिनः कवलाहारस्य सिद्धिः तेषामभाव इत्याह-आहारेति ।
यस्य कर्मणो बलादाहारं कर्तुं प्रभवति जन्तुः तद् आहारपर्याप्तिनामकर्म, सातं-सुखम्, तद्भिन्नमसातं दु:खम्, तद्वेदनं तदुपभोगः, तदनुभवो यस्य कर्मण उदयाद् भवति तद् असातवेदनीयकर्म, तदुयादिजन्यया कवलभुक्त्या कवलाहारेण समं कैवल्यस्य केवलज्ञानवत्त्वस्य विरोधाभावाद्, एककालावच्छेदेनैकत्राऽप्यात्मनि तयोः सम्भवादित्यर्थः ।।
घातिकर्मणामेवेति । येन कर्मणाऽऽवेष्टितो-नितरां बद्धो जन्तुर्जगति नरामरतिर्यग्नरकगतिषु जन्मादिकमनुभवति, तत् कर्म अष्टविधम् । तत्र नामादीनि चत्वारि कर्माणि अघातीनि-आत्मनो ज्ञानदर्शनचारित्रवीर्यरूपगुणानामविघातकानि-ज्ञानादीनां सद्भावकालेऽपि तेषां सद्भावात् । यानि तु ज्ञानावरणीय-दर्शनावरणीय-मोहनीया-ऽन्तरायाख्यानि ज्ञानादिगुणानां विघातकानि तेषामेव तद्विरोधित्वात् कैवल्यविरोधित्वादित्यर्थः ।
ननु आहारपर्याप्त्यसातवेदनीयादिकर्म यद्यपि केवलिनि समस्ति, तथापि केवलज्ञानज्योतिषा दग्धरज्जुकल्पं तदिति न स्वकार्यकवलाहारकरणक्षममतो न कवलाहारो भगवत इत्याशङ्कते
दग्धरज्जुस्थानीयात् ततो न तदुत्पत्तिरिति चेद्,
दग्धेति । दग्धरज्जुसदृशादित्यर्थः । सादृश्यं च स्वकार्यकरणाक्षमत्वेन । कर्म भावबन्धहेतू रज्जुश्च द्रव्यबन्धहेतुरित्येवं भेदेऽपि सामान्यतो बन्धहेतुत्वं तयोः समानम् । दग्धरज्जोर्यथा न बन्धहेतुत्वं तथा प्रकृतकर्मणोऽपि केवलज्ञानकाले इति भावः । ततः= आहारपर्याप्त्यादितः, न तदुत्पत्तिः=न कवलभुक्तिजन्म ।
यदि केवलज्ञानकाले सदपि आहारपर्याप्तिकर्म स्वकार्यं न कुर्याद्-दग्धरज्जुकल्पत्वात्, तर्हि तदानीं दग्धरज्जुकल्पादायुःकर्मणोऽपि श्वासप्रश्वासादिलक्षणप्राणसञ्चारस्वरूपभवोपग्रहो न भवेदिति केवलज्ञानानन्तरमेव मरणं प्रसज्येतेति समाधत्ते
नन्वेवं तादृशादायुषो भवोपग्रहोऽपि न स्यात् ।
तादृशात् केवलज्ञाने सति दग्धरज्जुकल्पत्वात्, आयुषो-जीवनादृष्टस्वरूपायु:कर्मणः।
भवोपग्रहः कञ्चित्कालं संसारेऽवस्थानमपि केवलिन औदारिकशरीरे सत्येव । अतः तदन्यथानुपपत्त्याऽपि केवलिनि कवलाहारोऽभ्युपगन्तव्य इत्याह
किञ्च, औदारिकशरीरस्थितिः कथं कवलभुक्तिं विना भगवतः स्यात् ?