________________
९२
सटीकजैनतर्कभाषायां
पञ्चेन्द्रियेति । यथा च चक्षुरादिजन्यत्वेनाऽभिमतस्य रूपादिज्ञानस्य जनने न मनसः सामर्थ्यम्, यतः तथा सति मनसैव रूपादिज्ञानजननसम्भवात् चक्षुरादिपञ्चेन्द्रियकल्पनवैयर्थ्यमेव प्रसज्येत, तथेत्यर्थः । अस्य केवलज्ञानस्य ।
केवलिनो जिनस्य कवलाहारं 'दिगम्बरा नाऽभ्युपगच्छन्ति-केवलज्ञानस्य ज्ञानान्तराद् यथा सर्वविषयकत्वलक्षणो विशेषः, तथा स्वयोगिनि पुरुषधौरेये कवलाहारं विनाऽपि शरीरधारणसामर्थ्याधानमिति । तथा च ये कवलभोजिनः ते न केवलज्ञानिनः, ये च केवलज्ञानवन्तः ते न कवलभोजिनः इति तन्मतमुपन्यस्य प्रतिक्षिपति
कवलभोजिनः कैवल्यं न घटते इति दिक्पटः। .
कवलभोजिनः कवलाहारकारिणः, कैवल्यं केवलज्ञानवत्त्वम् । एतदुक्तिश्च २श्वेताम्बराणामस्माकं केवलिनि कवलाहारमभ्युपगच्छतां मतस्य विद्वेषेणेति । दिक्पट:- दिगम्बरः ।
तन्न, आहारपर्याप्त्यसातवेदनीयोदयादिप्रसूतया कवलभुक्त्या कैवल्याविरोधाद्, घातिकर्मणामेव तद्विरोधित्वात् ।
तन्न-उक्तमतं न समीचीनम् । केवलज्ञाने जातेऽपि केवलिनि २आहारपर्याप्तिनामकर्मणोऽसातवेदनीय कर्मणश्चोदयादेः कवलभोजनकारणस्याऽस्मदादाविव सद्भावेन कवलाहारस्य तत्र सम्भवात् । न चोक्तकारणप्रसूतस्य कवलाहारस्य केवलज्ञानेन विरोधो, येन तस्मिन् सति स न भवेत् । 'ज्ञानावरणादिकर्मणामेव केवलज्ञानेन सह विरोध इति तस्मिन् सति
'कवलभोजिनः कैवल्यम्'"जरवाहिदुक्खरहियं आहारणिहारवज्जियं विमलं । सिंहा(घा)णखेलसेओ णत्थि दुगंछा य दोसो य ॥" बोधप्राभृत-३७ . "कवलाभ्यवहारजीविनः केवलिनः इत्येवमादिवचनं केवलिनामवर्णवादः ।"
सर्वार्थसि० ६.१३. राजवा०. ६.१३
१. वस्त्राणां मोहकारणत्वात् श्रामण्यस्य नग्नत्वं लक्षणमित्यभ्युपगच्छन्तो जैनविशेषाः । दिगेवाऽम्बरं येषां ते
दिगम्बरा इति विग्रहः । २. नग्नत्वं प्रवर्तमानदेशकालमाश्रित्य जिनैनिषिद्धमिति वस्त्रं धर्त्तव्यम्, किन्तु तत्र मोहो न करणीयः,
मोहरहितत्वमेव श्रामण्यमित्यभ्युपगच्छन्तो जिनानुयायिनः । ते श्वेतवस्त्रमेव धरन्तीति श्वेताम्बरा इत्युच्यन्ते । ३. येनाऽदृष्टविशेषेणाऽऽहारग्रहणपाचनादि भवति तद् अदृष्टमाहारपर्याप्तिकर्मेत्युच्यते । तद् 'नाम'कर्मण
उपभेदेष्वन्तर्भवति । ४. येनाऽदृष्टविशेषेण क्षुधातृष्णावेदनादयोऽनुभूयन्ते तद् असातवेदनीयकर्मेत्युच्यते । ५. यत् कर्म आत्मनः स्वाभाविकं ज्ञानमावृणोति तद् ज्ञानावरणीयेतिसंज्ञामश्रुते ।