________________
९१
केवलज्ञानम् प्रकाशयति किञ्चिच्च न प्रकाशयति तत्र सावरणत्वमेव निबन्धनम् । यदुक्तं-'ज्ञो ज्ञेये कथमज्ञः स्यादसति प्रतिबन्धरि' । तथा च-अस्मदादिज्ञान-सावरणं-स्वविषयेऽप्रवृत्तिमत्त्वाद्-यन्नैवं तन्नैवम्, यथा केवलज्ञानमित्याह-स्वविषय इति ।
अस्मदादिज्ञानमप्यस्पष्टतया सर्वं गृह्णात्येव । तत्काले यत् स्पष्टतया सर्वस्य न ग्रहणं तत्र सावरणत्वमेव निबन्धनम् । अस्पष्टतयाऽप्यस्मदादिज्ञानस्य सर्वविषयकत्वाभावे-'इदं वाच्यंप्रमेयत्वादि'त्यादौ 'यद्यत् प्रमेयं तत्तद् वाच्य'मित्येवं प्रमेयत्ववाच्यत्वयोः सर्वोपसंहारेण व्याप्तिग्रहणमपि न भवेत्, तथा च तत्प्रभवाऽनुमितिरपि न स्यात् । तथा 'पर्वतो-वह्निमान्धूमा'दित्यादौ 'यो यो धूमवान् स स वह्निमा नित्येवं सर्वोपसंहारेण व्याप्तिज्ञानमपि कालान्तरीयदेशान्तरीयधूमवढ्यादिग्रहणे सत्येव युज्यते, नाऽन्यथेति ज्ञानमात्रस्य सर्वविषयत्वम् । एवमपि यद् न विशेषतः स्वविषये प्रवृत्तिः तत्राऽवरणमेव तन्त्रमित्याह-असर्वविषयत्वे इति ।
__ज्ञानं हि स्वप्रकाशस्वभावत्वात् स्पष्टमेव, तथापि यत् क्वचिद् विषयेऽस्पष्टम्, तत् परनिबन्धनम्, परं च तत्राऽवरणमेवेत्याह-सावरणत्वाभाव इति ।
सिद्धे चैवमावरणस्वरूपे कर्मणि सम्यग्दर्शनादिना तस्याऽत्यन्तक्षये जायमानस्य ज्ञानस्य कैवल्यमपि निरावरणत्वलक्षणं सिद्धिपथमेतीत्याह
आवरणस्य च कर्मणो विरोधिना सम्यग्दर्शनादिना विनाशात् सिद्धयति कैवल्यम्।
___ योगाभ्यासजनितधर्मविशेषसहकृतमनसा योगिनः सर्वविषयकं ज्ञानं प्रादुरस्ति, तदेव केवलज्ञानमिति वैशेषिकादयः प्रलपन्ति । तन्मतमपाकर्तुमाह
योगजधर्मानुगृहीतमनोजन्यमेवेदमस्तु-इति केचित् तन्न, धर्मानुगृहीतेनाऽपि मनसा पञ्चेन्द्रियार्थज्ञानवदस्य जनयितुमशक्यत्वात् ।।
इदं केवलज्ञानम्, केचिद्-वैशेषिकादयः, वदन्तीति शेषः । तन्न-उक्तमतं न समीचीनम् । यो यस्य विषयः तज्ज्ञानमेव तेन जन्यते । नहि रूपज्ञानं चक्षुभिन्नेन केनापीन्द्रियेण, किन्तु चक्षुषैव । एवं रसादिज्ञानमपि रसनादीन्द्रियेण । सहकारिकारणं तु स्वविषये एव करणस्य बलमादधाति, न तु स्वाविषये करणप्रवृत्तिमाधातुमलमिति आत्ममात्रापेक्षस्य स्वावरणक्षयसमुत्थस्य केवलज्ञानस्य जनने न योगाभ्यासजनितधर्मविशेषसहकृतस्याऽपि मनसः सामर्थ्यमिति न तादृशमनःप्रभवं तदित्याह-धर्मानुगृहीतेनाऽपीति । योगजधर्मसहकृतेनाऽपीत्यर्थः ।
१. ज्ञेयहेयोपादेयतत्त्वानां तत्तद्रूपेण ज्ञानं श्रद्धानं च सम्यग्दर्शनम् । २. योगजो द्विविधः प्रोक्तो, युक्तयुञ्जानभेदतः ॥ (कारिकावली-६५)