________________
सटीकजैनतर्कभाषायां
सकलवस्तुविषयकप्रत्यक्षम् । पारमार्थिकप्रत्यक्षत्वाविशेषेऽपि विकलविषयकत्वादवधिमनःपर्यवज्ञानयोर्विकलप्रत्यक्षत्वम्, केवलज्ञानस्य तु सकलवस्तुविषयकत्वात् सकलप्रत्यक्षत्वमित्यर्थः ।
९०
=
सकलप्रत्यक्षस्याऽस्य विषयतया निखिलद्रव्यपर्याययोरेवोपादानाद् जगति द्रव्यपर्यायानन्तर्भूतं नाऽस्त्येव तत्त्वमित्यावेदितम् । तत्र द्रव्याणि जीवपुद्गलधर्माधर्माकाशास्तिकायाः पञ्च, कालश्चेति षट् । जीवादीनां सप्रदेशत्वादस्तिकायत्वम् । यो ह्यवयवः प्रदेशिसम्बद्ध एव सर्वदाऽवतिष्ठते स प्रदेशः, ईदृशं प्रदेशमादाय सप्रदेशत्वं यद्यपि न पुद्गलानाम्, तथापि स्वात्मकसङ्घातनिविष्टैकदेशलक्षणावयवस्य' प्रदेशत्वमुपचर्य सप्रदेशत्वं ज्ञेयम् । कालस्तु परमनिरुद्धसमयैकस्वरूपत्वाद् नाऽस्तिकायः । गुणपर्यायवद् द्रव्यमिति द्रव्यलक्षणमिति । द्रव्यस्य सहभावी पर्यायो गुणः क्रमभावी पर्यायस्तु पर्यायेति सामान्यसंज्ञया गीयते । द्रव्यपर्याययोरन्तर्भूतमेव सकलं वस्त्विति निखिलतदुभयसाक्षात्कारिणः केवलज्ञानस्य सकलप्रत्यक्षत्वं युक्त्योपपन्नमेवेति ।
यथा च पारमार्थिकप्रत्यक्षमप्यवधिज्ञानमनुगाम्यादिभेदेन षड्विधम्, मनः पर्यवज्ञानं च ऋजुमतिविपुलमतिभेदेन द्विविधं तयोः कारणीभूतानां स्वावरणक्षयोपशमविशेषाणामवान्तरतारतम्यसम्भवाद्, न तथा केवलज्ञानं सभेदं - तत्कारणस्याऽशेषस्वावरणक्षयस्यैकत्वात्-कारणभेदाभावे कार्यभेदासम्भवादित्याह
तच्चाऽवरणक्षयस्य हेतोरैक्याद् भेदरहितम् । आवरणं चाऽत्र कर्मैव, स्वविषयेऽप्रवृत्तिमतोऽस्मदादिज्ञानस्य सावरणत्वाद्, असर्वविषयत्वे व्याप्तिज्ञानाभावप्रसङ्गात्, सावरणत्वाभावेऽस्पष्टत्वानुपपत्तेश्च ।
तच्च = केवलज्ञानं च, भेदरहितम् = अवान्तरविशेषशून्यम् । एकविधमेवेति यावत् ।
यथा हि कुड्याद्यन्तरितवस्तु चक्षुर्न विभासयतीति कुड्यादिकमावरणं तथा बाह्यमत्र नाऽवरणं-देशकालस्वभावविप्रकृष्टानां दूरादिव्यवस्थितातीतानागतकालीनाण्वादिस्वरूपाणामपि पदार्थानां ज्ञानेनाऽवभासनात्, किन्तु कर्मैव ज्ञानेऽवरणम्, यद्वशात् सन्निहितमपि वस्तु नाऽवभासयति, यस्य च क्षयोपशमादत्यन्तक्षयाद् वा व्यवहितमपि ज्ञानं प्रकाशयतीत्याहआवरणं चेति । अत्र = ज्ञाने ।
चर्मचक्षुषामस्मादृशां ज्ञानमपि स्वभावतः सर्वविषयकमेव । एवमपि यत्किञ्चित्
१. स्व = अवयवः, तदात्मक एव सङ्घातः, तत्र निविष्ट एकदेशः अवयवः ।
=