________________
मनःपर्यायज्ञानम्
विपुला = विशेषग्राहिणी मतिविपुलमतिः । तत्र ऋजुमत्या घटादिमात्रमनेन चिन्तितमिति ज्ञायते, विपुलमत्या तु पर्यायशतोपेतं तत् परिच्छिद्यते इति ।
विपुलेति । ऋजुमत्यपेक्षया बहुतरविशेषग्राहिणीत्यर्थः । उक्तमेवाऽर्थं स्पष्टयति-तत्रेति । ऋजुमतिविपुलमत्योर्मध्ये इत्यर्थः । तत् = चिन्तितं घटादि ।
एते च द्वे ज्ञाने विकलविषयत्वाद् विकलप्रत्यक्षे परिभाष्येते ।
एते = अनन्तरनिरुपिते द्वे ज्ञाने = अवधिमनःपर्यवज्ञाने, विकलविषयत्वाद् = असकलवस्तुविषयकत्वाद् । परिभाष्येते इति । जैनाचार्यकृतसङ्केतः-अवधिज्ञानं मनःपर्यवज्ञानं च विकलप्रत्यक्षशब्दाद् बोद्धव्ये-इत्याकारकपरिभाषा, तद्विषयौ इत्यर्थः ।
केवलज्ञानं निरूपयतिनिखिलद्रव्यपर्यायसाक्षात्कारि केवलज्ञानम् ।
अत्र निखिलद्रव्यपर्यायसाक्षात्कारीति लक्षणनिर्देशः, केवलज्ञानमिति लक्ष्यनिर्देशः । मत्यादिज्ञानानां क्षायोपशमिकानां चतुर्णामपि निखिलद्रव्यपर्यायसाक्षात्कारित्वाभावाद् न तेष्वतिव्याप्तिः । केवलज्ञानं च करामलकवद् विश्वमेव साक्षात्करोति, ज्ञानस्य सामान्यतो ज्ञेयमात्रावभासनस्वभावो निजगतावरणकर्मणा प्रतिरुध्यते, स्वाशेषावरणक्षयसमुत्थस्य तु केवलज्ञानस्य स्वविषये ज्ञेयस्वभावे जगति लेशतोऽप्यावरणाभावाद् युज्यते निखिलद्रव्यपर्यायसाक्षात्कारित्वमिति लक्षणसमन्वयः ।
. प्रमाणसामान्यलक्षणे पूर्वमेवोक्तं 'दर्शनेऽतिव्याप्तिवारणाय ज्ञानपद'मिति प्रमाणरूपज्ञानस्यैव प्रत्यक्षपरोक्षभेदेन प्रथमं द्वैविध्यम्, ततः प्रत्यक्षस्य सांव्यवहारिकपारमार्थिकभेदेन द्वैविध्यम्, तत्र पारमार्थिकेष्ववधिमनःपर्यवकेवलज्ञानलक्षणप्रत्यक्षेषु यदिदं केवलज्ञाननिरूपणं प्रक्रान्तम्, तत् केवलज्ञानानुगाम्येव न तु केवलदर्शनानुगामीति । ततः प्रकृतलक्षणमिदं केवलदर्शने न गच्छेदित्येतदर्थं सामान्यधर्मानवच्छिन्न-निखिलधर्मनिष्ठप्रकारतानिरूपित-निखिलधर्मनिष्ठविशेष्यताकसाक्षात्कारित्वं केवलज्ञानस्य लक्षणं वक्तव्यम् । दर्शने च केवले सामान्यात्मना सकलद्रव्यपर्यायसाक्षात्कारिण्यपि सप्रकारकत्वाभावाद् न परिष्कृतलक्षणवत्त्वम् । केवलोपयोगमात्रस्य लक्ष्यत्वे तु यथाश्रुतलक्षणमपि सङ्गतमेवेति बोध्यम् ।
अत एवैतत् सकलप्रत्यक्षम् । अत एव = निखिलद्रव्यपर्यायसाक्षात्कारित्वादेव, एतत् = केवलज्ञानं, सकलप्रत्यक्षं "निखिलद्रव्य'-विशेषा० बृ० गा० ८२३ ।