________________
८८
सटीकजैनतर्कभाषायां
ज्ञानेऽतिव्याप्तिः ।
ननु मनः चिन्तनीयबाह्यवस्त्वाकारेण परिणतं मनःपर्यवज्ञानी जानानो मनसि स्वाकाराधायकं चिन्तनीयबाह्यवस्त्वपि जानीत एवेति मनःपर्यवज्ञानेऽपि मनोमात्रसाक्षात्कारित्वं नास्त्येव-मनोभिन्नचिन्तनीयबाह्यवस्तुसाक्षात्कारित्वस्याऽपि भावादित्यबोधविजृम्भिताशङ्कापनोदायाऽऽह
मनःपर्यायानिदं साक्षात् परिच्छेत्तुमलं, बाह्यानर्थान् पुनः तदन्यथाऽनुपपत्त्याऽनुमानेनैव परिच्छिनत्तीति द्रष्टव्यम् ।
इदं = मनःपर्यवज्ञानम्, अलं = समर्थम्, तद् = मनसः चिन्तनीयबाह्यवस्त्वाकारपर्यायाः । अयमभिप्रायः- मनःपर्यवज्ञानस्य यदि मनोद्रव्यमात्रज्ञानत्वं लक्षणमुच्यते तदा तस्य लक्षणस्य समन्वयः तत्र न भवेत्-चिन्तनीयबाह्यपदार्थज्ञानस्याऽपि मनःपर्यवज्ञानत्वाभावात् । न चैवमुच्यते, किन्तु मनोमात्रसाक्षात्कारित्वं तल्लक्षणमुच्यते, तच्च सम्भवत्येव, यतो मनोद्रव्यस्यैव साक्षात्कारि मनःपर्यवज्ञानिनो ज्ञानम्, चिन्तनीयवस्तुनो बाह्यघटादेः त्वनुमित्यात्मकमेव, चिन्तकस्याऽयं मनसो घटाद्याकारपर्यायः-चिन्तनीयबाह्यवस्तुजनित:-तदाकारपर्यायत्वात्-यो यदाकारपर्यायः स तद्वस्तुजनितः, स्फटिके जपाकुसुमजनितरक्ताकारपर्यायवदित्येवमनुमानप्रयोगोऽत्र बोध्यः ।
तद् द्विविधम्-ऋजुमतिविपुलमतिभेदात् । तद् = मनःपर्यवज्ञानम् ।
ऋज्वी = सामान्यग्राहिणी मतिः ऋजुमतिः । सामान्यशब्दोऽत्र विपुलमत्यपेक्षयाऽल्पविशेषपरः, अन्यथा सामान्यमात्रग्राहित्वे मनःपर्यायदर्शनप्रसङ्गात् ।
अल्पविशेषपरः =अल्पविशेषप्रतिपादकतयाऽभीष्टः । तथा च विपुलमतिमनःपर्यवज्ञानं मनोद्रव्यस्य यावतो विशेषान् गृह्णाति ततोऽल्पतरविशेषान् ऋजुमतिर्गृह्णातीत्यर्थः ।
विपुलमतिमन:पर्ययज्ञानस्वरूपं प्रकटयति
'बाह्यानन्'-"तेन द्रव्यमनसा प्रकाशितान् बाह्यांश्चिन्तनीयघटदीननुमानेन जानाति, यत एव तत्परिणतानि एतानि मनोद्रव्याणि तस्मादेवंविधेनेह चिन्तनीयवस्तुना भाव्यम् इत्येवं चिन्तनीयवस्तूनि जानाति न साक्षादित्यर्थः । चिन्तको हि मूर्त्तममूर्तं च वस्तु चिन्तयेत् । न च छद्मस्थोऽमूर्तं साक्षात् पश्यति । ततो ज्ञायते अनुमानादेव चिन्तनीयं वस्त्ववगच्छति ।"-विशेषा० बृ० गा० ८१४ ।