________________
अवधिज्ञानम्
निर्मूलेति । सर्वथेत्यर्थः । इदं = प्रतिपात्यवधिज्ञानम् । अप्रतिपात्यवधिज्ञानं निरूपयति
आ केवलप्राप्तेरा मरणाद् वाऽवतिष्ठमानमप्रतिपाति, वेदवद्, यथा पुरुषवेदादिरापुरुषादिपर्यायं तिष्ठति तथेदमपीति ।।
केवलज्ञानोत्पत्तिक्षणे तदनन्तरक्षणेषु च न क्षायोपशमिकं ज्ञानचतुष्टयमित्यवधिज्ञानमपि नाऽस्तीति, यद् अवधिज्ञानमुत्पन्नं सत् केवलज्ञानपर्यन्तमवतिष्ठते तद् अवधिज्ञानमप्रतिपातीति । अथवा यद् अवधिज्ञानमुत्पन्नं सद् मरणाव्यवहितपूर्वसमयं यावदवतिष्ठते तद् अवधिज्ञानमप्रतिपातीति । अत्र दृष्टान्तमाह- वेदवदिति । पुरुषवेदादिवदित्यर्थः । दृष्टान्तानुगमनं करोति-यथेति । पुरुषवेदादीत्यादिपदात् स्त्रीवेदनपुंसकवेदयोरुपग्रहः । पुरुषवेदनीयं कर्म पुरुषवेदः, एवं स्त्रीवेद-नपुंसकवेदौ । यावत्कालं पुरुषभावेन जन्तोरवस्थितिः, तावत्कालं तस्य पुरुषवेदोऽवतिष्ठते । एषैव दिक् स्त्रीवेदनपुंसकवेदयोरपि । इदम् = अप्रतिपात्यवधिज्ञानम् । तथा = केवलावाप्तिपर्यन्तं मरणपर्यन्तं वाऽवतिष्ठते ।
मनःपर्यवज्ञानं निरूपयतिमनोमात्रसाक्षात्कारि मनःपर्यवज्ञानम् । मनोमात्रसाक्षात्कारीति लक्षणनिर्देशो, मनःपर्यवज्ञानमिति लक्ष्यनिर्देशः ।
यदा कश्चित् पुमान् मनसि किञ्चिद् बाह्यवस्त्वादिकं विचारयति तदा विचार्यमाणबाह्यवस्त्वाद्याकारेण परिणतं तस्य मनोद्रव्यं मनःपर्यवज्ञानी जानातीति मनःपर्यवज्ञानिनो विशुद्धसंयमविशेषवतः साधोः क्षयोपशमविशेषाद् मनोद्रव्यतत्पर्यायमात्रसाक्षात्कारिज्ञानं मनःपर्यवज्ञानमित्यर्थः ।।
केवलज्ञानमपि सकलवस्तुविषयकं मनोद्रव्यसाक्षात्कारि भवत्येवेति तत्राऽतिव्याप्तिवारणाय मात्रपदम् । यद्यप्यवधिज्ञानं रूपिद्रव्यविषयकं पौद्गलिकस्य मनसोऽपि रूपिद्रव्यत्वेन तद्विषयकमपि, तथापि नैतादृशं किञ्चिदप्यवधिज्ञानं समस्ति-यद् मनोद्रव्यमेव विषयीकरोति, न मनोद्रव्यभिन्नं रूपिद्रव्यमिति मनोद्रव्यमात्रसाक्षात्कारित्वस्य तत्राऽप्यभावाद् नाऽवधि... 'मनोमात्र'-विशेषा० बृ० गा० ८१० ।
१. मत्यादिज्ञानचतुष्टयं ज्ञानावारककर्मणः किञ्चिदंशस्य निर्मूलीकरणेन (=क्षयेन) किञ्चिदंशस्य चाऽभिभवेन
(-उपशमेन) जायते, अतस्तानि ज्ञानानि क्षायोपशमिकानि । आवारककर्मणः सर्वथा निर्मूलीकरणकाले = केवलज्ञानकाले एतस्मात् कारणादेव न तेषां सत्त्वम् ।