________________
८४
सटीक जैनतर्कभाषायां 'स्वावरणक्षय-स्वावरणक्षयोपशमविशेषातिरिक्तानपेक्षात्मव्यापारमात्रापेक्षोत्पत्तिकं पार
मार्थिकप्रत्यक्षमित्यर्थः । तद् विभजते
तत् त्रिविधम्-अवधि-मनः पर्यव - केवलभेदात् ।
अवधिज्ञानम्, मनः पर्यवज्ञानम्, केवलज्ञानमित्येवं त्रिविधं पारमार्थिकप्रत्यक्षमित्यर्थः ।
अवधिज्ञानं निरूपयति
सकलरूपिद्रव्यविषयकजातीयमात्ममात्रापेक्षं ज्ञानमवधिज्ञानम् ।
अत्र अवधिज्ञानमिति लक्ष्यनिर्देशः, सकलरूपीत्यादि लक्षणनिर्देशः ।
ज्ञानमित्येतावन्मात्रोक्तौ मतिज्ञानादावतिव्याप्तिरिति आत्ममात्रापेक्षमिति तद्विशेषणम् । आत्ममात्रापेक्षं ज्ञानं मनः पर्यवज्ञानं केवलज्ञानं चेति तयोरतिव्याप्तिवारणाय सकलरूपिद्रव्यविषयकजातीयमिति । रूपिद्रव्यसमनियतविषयताकज्ञानवृत्तिज्ञानत्वव्याप्यजातिमदिति तदर्थः । तेन केवलज्ञानस्य सकलरूपिद्रव्यविषयकत्वेऽपि न तत्राऽतिव्याप्तिः - केवलज्ञानविषयताया रूपिद्रव्यातिरिक्तद्रव्यादावपि सत्त्वेन तद्व्याप्यत्वे सति तद्व्यापकत्वलक्षणसमनियतत्वस्य रूपिद्रव्यनिरूपितस्य तत्राऽभावाद् । यतः तदभाववदवृत्तित्वं व्याप्यत्वं तच्च प्रकृते रूपिद्रव्यत्वाभाववदवृत्तित्वम्, तद् रूपिद्रव्यत्वाभाववत्यरूपिद्रव्यादौ विद्यमानायां केवलज्ञानविषयतायां नास्तीति ।
मनःपर्यायज्ञाननिरूपिता विषयता रूपिद्रव्यत्वव्याप्याऽपि न रूपिद्रव्यत्वव्यापिका । व्यापकत्वं हि तत्समानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्त्वम्, तच्च रूपिद्रव्यत्वाधिकरणे मनोद्रव्यभिन्नघटादिलक्षणरूपिद्रव्ये विद्यमानस्य मनः पर्यायज्ञानविषयत्वाभावस्य प्रतियोगितावच्छेदकं यद् मनः पर्यायविषयतात्वं तद्वत्त्वेन मनः पर्यायज्ञानविषयतायां नाऽस्तीति ।
अवधिज्ञाने चोक्तलक्षणं सङ्गच्छते । रूपिद्रव्यत्वसमनियतविषयता परमावधि - ज्ञानविषयता, तन्निरूपकं ज्ञानं परमावधिज्ञानम्, तद्वृत्तिर्या ज्ञानत्वव्याप्या जातिः साऽवधिज्ञानत्वजातिः, तद्वदात्ममात्रापेक्षं ज्ञानमवधिज्ञानमिति । जातिघटितलक्षणोपादानात् परमावधिभिन्नावधिज्ञानमात्रस्य सकलरूपिद्रव्यविषयकत्वाभावेऽपि न तत्राऽव्याप्तिः ।
एतेन इन्द्रियादिजन्य श्रुताननुसारिज्ञानवृत्तिज्ञानत्वव्याप्यजातिमत्त्वं मतिज्ञानस्य,
१. ज्ञानमात्रस्य स्वोत्पत्तौ स्वावरणक्षयक्षयोपशमान्यतरापेक्षेतीदं विशेषणम् ।
२. केवलं परमावधिरेव सकलरूपिद्रव्याणि विषयीकरोति ।