________________
श्रुतभेदाः
८३
गमिका मिश्रुते प्ररूपयति
गमिकं सदृशपाठं प्रायो दृष्टिवादगतम् । अगमिकमसदृशपाठं प्रायः २कालिकश्रुतगतम् ।
गमा = भङ्गका गणितादिविशेषाश्च तद्बहुलं = तत्सङ्कुलं गमिकम्, अथवा गमाः सदृशपाठाः, ते च कारणवशेन यत्र बहवो भवन्ति तद् गमिकमित्येवं विशेषावश्यकभाष्ये व्याख्यातम् । तत्र द्वितीयपक्षमाश्रयन्नाह - सदृशपाठमिति । एतादृशं श्रुतं कुत्रेत्यपेक्षायामाह - प्रायो दृष्टिवादगतमिति । एतत्प्रतिपक्षीभूतागमिक श्रुतव्याख्या - तत्स्थाने आह - अगमिकमिति । अङ्गप्रविष्टानङ्गप्रविष्टश्रुते उदाहरति
=
अङ्गप्रविष्टं गणधरकृतम्, अनङ्गप्रविष्टं तु स्थविरकृतमिति ।
"उप्पेर वा विगमेइ वा धुवेइ वा" इति श्रीतीर्थकृद्भगवन्मुखाम्बुजनिर्गतत्रिपद्युपदेशनिष्पन्नं ध्रुवं च यत् श्रुतं गणधररचितमाचारादि तदङ्गप्रविष्टमित्यर्थः । स्थविरकृतमावश्यकप्रकीर्णादिश्रुतमनङ्गप्रविष्टमित्यर्थः ।
वृत्ते च मतिश्रुतनिरूपणे सप्रभेदं तदुभयात्मकं सांव्यवहारिकप्रत्यक्षनिरूपणमपि निष्पन्नमेवेत्युपसंहरति
तदेवं सप्रभेदं सांव्यवहारिकं मतिश्रुतलक्षणं प्रत्यक्षं निरूपितम् । पारमार्थिकप्रत्यक्षनिरूपणम्
पारमार्थिकप्रत्यक्षसामान्यस्य लक्षणमाह
स्वोत्पत्तावात्मव्यापारमात्रापेक्षं पारमार्थिकम् ।
'गमिकम् ' -गमा भङ्गका गणितादिविशेषाश्च तद्बहुलं तत्सङ्कुलं गमिकम् । अथवा गमाः सदृशपाठाः ते च कारणवशेन यत्र बहवो भवन्ति तद् गमिकम्, तच्चैवंविधं प्रायः दृष्टिवादे । यत्र प्रायो गाथाश्लोकवेष्टकाद्यसदृशपाठात्मकं तदगमिकम्, तच्चैवंविधं प्रायः कालिकश्रुतम् ।" विशेषा० बृ० गा० ५४९ ।
१. बहुपूर्वमेव विच्छिन्नोऽयं ग्रन्थः । अस्य विषयसूची नन्द्यादिषु प्रतिपादिताऽस्ति । २. आगमविशेषाणां 'कालिके 'ति संज्ञा ।
'अङ्गप्रविष्टम्'–''गणधरकृतं पदत्रयलक्षणतीर्थकरादेशनिष्पन्नम्, ध्रुवं च यत् श्रुतं तद् अङ्गप्रविष्टमुच्यते तच्च द्वादशाङ्गीरूपमेव । यत्पुनः स्थविरकृतं मुत्कलार्थाभिधानं चलं च तद् आवश्यकप्रकीर्णादिश्रुतम् अङ्गबाह्यमिति । " - विशेषा० बृ० गा० ५५० ।