________________
सटीकजैनतर्कभाषायां क्षेत्राण्याश्रित्य सादि सनिधनं सम्यक्श्रुतं भवति । तत्र प्रथमतीर्थकृत्समये तद् भवतीति सादि, चरमतीर्थकृत्तीर्थान्तेऽवश्यं तद् विच्छिद्यते इति सनिधनमिति । कालत इति । काले त्वाश्रीयमाणे द्वे समे उत्सर्पिण्यवसर्पिण्यौ समाश्रित्य तेष्वेव भरतैरावतेष्वेतत् सादि सपर्यवसितं भवति, द्वयोरपि समयोः तृतीयारके प्रथमं भावात् सादित्वम्, उत्सर्पिण्यां चतुर्थस्याऽऽदौ, अवसर्पिण्यां तु पञ्चमस्याऽन्तेऽवश्यं विच्छेदात् सपर्यवसितत्वमिति । भावतश्चेति । भावतो विचार्यमाणे प्रज्ञापकं गुरुं श्रुतप्रज्ञापनीयान् चाऽर्थानासाद्य सादि सपर्यवसितमिदं भवतीति ।
सादिश्रुतप्रतिपक्षमनादिश्रुतं निरूपयति
अनादि द्रव्यतो नानापुरुषानाश्रित्य, क्षेत्रतो महाविदेहान्, कालतो नोउत्सर्पिण्यवसर्पिणीलक्षणम्, भावतश्च सामान्यतः क्षयोपशममिति ।
द्रव्यत इति । द्रव्यविषये नारकतिर्यग्मनुष्यदेवगतान् नानासम्यग्दृष्टिजीवान्, आश्रित्य =अवलम्ब्य तदपेक्षयेति यावत्, सम्यक्श्रुतं सततं वर्तते, न तु कदाचिद् न भवति । एवं च नानापुरुषानाश्रित्येदमनाद्यपर्यवसितं भवतीति । क्षेत्रत इति । पञ्चमहाविदेहलक्षणान् विदेहानङ्गीकृत्य श्रुतज्ञानं सततं वर्तते इत्यनाद्यपर्यवसितं तदित्यर्थः । कालत इति । अनवसपिण्यनुत्सर्पिणीलक्षणं कालमाश्रित्य पञ्चमहाविदेहेष्वनाद्यपर्यवसितं श्रुतज्ञानमिति । भावतश्चेति । सामान्यतः क्षायोपशमिकं भावमाश्रित्य श्रुतज्ञानं सततं वर्त्तते, यतः सामान्येन महाविदेहेप्वुत्सर्पिण्यवसर्पिण्यभावरूपकालविशिष्टेषु द्वादशाङ्गश्रुतं कदापि न व्यवच्छिद्यते-तीर्थकरगणधरादीनां तेषु सर्वदैव भावादित्यनाद्यपर्यवसितं तदित्यर्थः ।।
___ सादिश्रुतप्ररूपणे तस्य सपर्यवसितत्वं भावितमनादिश्रुतप्ररूपणे च तस्याऽपर्यवसितत्वं भावितमिति न तत्र वक्तव्यमवशिष्यते किञ्चिदिति सपर्यवसितापर्यवसितयोर्भावनामतिदिशति
एवं सपर्यवसितापर्यवसितभेदावपि भाव्यौ ।
'अनादि द्रव्यत:'-"द्रव्ये-द्रव्यविषये नानापुरुषान् नारकतिर्यङ्मनुष्यदेवगतान् नानासम्यग्दृष्टिजीवानाश्रित्य श्रुतज्ञानं सम्यक्श्रुतं सततं वर्तते । अभूत् भवति भविष्यति च। न तु कदाचिद् व्यवच्छिद्यते । ततस्तानाश्रित्य इदम् अनादि अपर्यवसितं च स्यादिति भावः । क्षेत्रे पुनः पञ्चमहाविदेहलक्षणान् विदेहानङ्गीकृत्य । काले तु यस्तेष्वेव विदेहेषु कालः अनवसर्पिण्युत्सर्पिणीरूपः तमाश्रित्य । भावे तु क्षायोपशमिके श्रुतज्ञानं सततं वर्त्तते अतोऽनादि अपर्यवसितम् । सामान्येन हि महाविदेहेषु उत्सर्पिण्यवसर्पिण्यभावरूपनिजकालविशिष्टेषु द्वादशाङ्गश्रुतं कदापि न व्यवच्छिद्यते तीर्थङ्करगणधरादीनां तेषु सर्वदैव भावात् ।'–विशेषा० बृ० गा० ५४८ । १. भरतादिक्षेत्राणामुत्सपिण्यादिकालगणनानां च ज्ञानार्थं बृहत्सङ्ग्रहण्यादीनि प्रकरणान्यवलोकनीयानि ।