________________
श्रुतभेदाः
तदाऽङ्गप्रविष्टं यद् आचारादिश्रुतं यच्चाऽनङ्गप्रविष्टमावश्यकादि श्रुतं तदुभयमपि स्वरूपतः सम्यक्श्रुतमेव-तत्प्रतिपाद्यार्थस्याऽनेकान्तात्मकत्वेनाऽबाधितत्वात् । तदुभयभिन्नं भारतादि व्यासादिप्रणीतं लौकिकं बाधितैकान्तार्थकत्वेन स्वरूपतो मिथ्याश्रुतमेवेत्यभिहितम् । स्वामिचिन्ताश्रयणे पुनः सम्यग्दृष्टिपरिगृहीतं = सम्यग्दृष्टिनाऽध्ययनाध्यापनादिविषयीकृतं मिथ्या श्रुतमपि भारतादिकं सम्यक्श्रुतमेव । तत्र हेतुमाह - वितथभाषित्वादिनेति । आदिपदाद् भवहेतुत्वादेरुपग्रहः ।
८१
महाभारतादिरयं वितथभाषिणैकान्तवादिना यथावद्वस्त्वनभिज्ञेन व्यासादिनोपरचितः, एकान्ततया तदुक्तार्थानुष्ठानं भवभ्रमणहेतुरित्यादिरूपेण तदर्थाकलनं समीचीनमेव । न हि भारतादिप्रणेता वितथभाषी न भवति, न वा तदुपदर्शितक्रियाकलापानुष्ठानं भवभ्रमणहेतुर्न भवतीत्यतो, मिथ्यात्वनिबन्धनैकान्तघटनां परिचिन्त्य कथञ्चिदर्थसंयोजनेन यथास्थानं तदर्थविनियोगात् सम्यक्श्रुतमेव भवतीत्यर्थः ।
विपर्ययाद् =अयथावस्थितबोधतो मिथ्यादृष्टिपरिगृहीतं = सम्यक्श्रद्धानरहितपुरुषेणाऽधीतं स्वरूपतः सम्यक् श्रुतमपि अनेकान्तार्थतां वास्तविक परिभूयैकान्तार्थतामवास्तविकीं प्रापितं सद् मिथ्याश्रुतमेव भवतीत्यर्थः ।
द्रव्यक्षेत्रकालभावैः सादि सम्यक्श्रुतं निरूपयति
सादि द्रव्यत एकं पुरुषमाश्रित्य क्षेत्रतश्च भरतैरावते,कालत उत्सर्पिण्यवसर्पिण्यौ, भावतश्च तत्तज्ज्ञापकप्रयत्नादिकम् ।
द्रव्यत इति । कस्यचिदेकस्य देवदत्तादेराधारीभूतद्रव्यस्य पूर्वं सम्यक्श्रुतं नाऽभूद्, इदानीमेव जातमिति तदपेक्षया सादि सम्यक्श्रुतमित्यर्थः । क्षेत्रतश्चेति । 'भरतैरावत
'सादि द्रव्यतः ' - विशेषा० बृ० गा० ५३८, ५४८ ।
'क्षेत्रतश्च' - " क्षेत्रे चिन्त्यमाने भरतैरावतक्षेत्राण्याश्रित्य सम्यक् श्रुतं सादि सनिधनं च भवति । एतेषु हि क्षेत्रेषु प्रथमतीर्थकरकाले तद्भवतीति सादित्वम्, चरमतीर्थकृतीर्थान्ते तु अवश्यं व्यवच्छिद्यते इति सपर्यवसितत्वमिति । काले तु अधिक्रियमाणे द्वे समे उत्सर्पिण्यवसर्पिण्या समाश्रित्य तत्रैव तेष्वेव भरतैरावतेष्वेतत् सादि सपर्यवसितं भवति, द्वयोरपि समयोः तृतीयारके प्रथमं भावात् सादित्वम्; उत्सर्पिण्यां चतुर्थस्याऽऽदौ, अवसर्पिण्यां तु पञ्चमस्याऽन्ते अवश्यं व्यवच्छेदात् सपर्यवसितत्वम् । भावे पुनः विचार्यमाणे प्रज्ञापकं गुरुम् श्रुतप्रज्ञापनीयांश्च अर्थानासाद्य इदं सादि सपर्यवसितं स्यादिति । " - विशेषा० बृ० गा० ५४६ ।
१. भरतादिक्षेत्राणामुत्सर्पिण्यादिकालगणनानां च ज्ञानार्थं बृहत्सङ्ग्रहण्यादीनि प्रकरणान्यवलोकनीयानि ।