________________
सटीकजैनतर्कभाषायां सङ्ग्यसञिश्रुते निरूपयतिसमनस्कस्य श्रुतं सझिश्रुतम्, तद्विपरीतमसज्ञिश्रुतम् ।
स्मरणचिन्तादिदीर्घकालिकज्ञानवान् सञी = समनस्कपञ्चेन्द्रियः, तस्य श्रुतं सञ्जिश्रुतम्, अमनस्कसम्मूर्च्छनपञ्चेन्द्रियोऽसंज्ञी, तस्य श्रुतं चाऽसज्ञिश्रुतमित्यर्थः ।
सम्यक्श्रुतं तद्विपरीतं मिथ्याश्रुतं च प्ररूपयति- -- सम्यक्श्रुतमङ्गानङ्गप्रविष्टम्, लौकिकं तु मिथ्याश्रुतम् । लौकिकम् = 'अङ्गानङ्गप्रविष्टभिन्नम् । स्वामिविशेषकृतं सम्यक्श्रुत-मिथ्याश्रुतयोविशेषं भावयति
स्वामित्वचिन्तायां तु भजना-सम्यग्दृष्टिपरिगृहीतं मिथ्याश्रुतमपि सम्यक्श्रुतमेववितथभाषित्वादिना यथास्थानं तदर्थविनियोगात् । विपर्ययाद् मिथ्यादृष्टिपरिगृहीतं च सम्यक्श्रुतमपि मिथ्याश्रुतमेवेति ।
भजनेति । मिथ्याश्रुतस्याऽपि सम्यक् श्रुतत्वम्, सम्यक्श्रुतस्याऽपि मिथ्याश्रुतत्वमित्यर्थः। भजनामेवोपपाद्य दर्शयति-सम्यग्दृष्टीति । यदि स्वामिचिन्ता नाऽऽ श्रीयते
'सज्ञिश्रुतम्'-विशेषा० बृ० गा० ५०४ ।।
"इदमुक्तं भवति-यतः स्मरणचिन्तादिदीर्घकालिकज्ञानसहितः समनस्कपञ्चेन्द्रियः संज्ञीत्यागमे व्यवह्रियते, असंज्ञी तु प्रसह्यप्रतिषेधमाश्रित्य यद्यप्येकेन्द्रियादिरपि लभ्यते तथापि समनस्कसंज्ञी तावत् पञ्चेन्द्रिय एव भवति, ततः पर्युदासाश्रयणात् असंयपि अमनस्कसंमूर्च्छनपञ्चेन्द्रिय एव आगमे प्रायो व्यवहियते । तदेवंभूतः संज्ञासंज्ञिव्यवहारो दीर्घकालिकोपदेशेनैव उपपद्यते ।"-विशेषा० बृ० गा० ५२६ । ।
___'सम्यक्'-"इह अङ्गप्रविष्टम् आचारादि श्रुतम्, अनङ्गप्रविष्टं तु आवश्यकादि श्रुतम्। एतद् द्वितयमपि स्वामिचिन्तानिरपेक्षं स्वभावेन सम्यक्श्रुतम् । लौकिकं तु भारतादि प्रकृत्या मिथ्याश्रुतम् । स्वामित्वचिन्तायां पुनः लौकिके भारतादौ लोकोत्तरे च आचारादौ भजनाऽवसेया। सम्यग्दृष्टिपरिगृहीतं भारताद्यपि सम्यक् श्रुतं सावधभाषित्व-भवहेतुत्वादियथावस्थिततत्त्वस्वरूपबोधतो विषयविभागेन योजनात् । मिथ्यादृष्टिपरिगृहीतं तु आचाराद्यपि अयथावस्थितबोधतो वैपरीत्येन योजनादिति भावार्थ इति ।" विशेषा० बृ० गा० ५२७ ।
१. जैनेषु ये ग्रन्था मूलशास्त्रत्वेन परिगण्यन्ते ते 'आगम' इति कथ्यन्ते । तेषु ये साक्षाद् महावीरस्वामिना प्रणीता
ते 'अङ्ग'सूत्राणि इति कथ्यन्ते । ते च ग्रन्था एकादश । तद्भिन्ना ग्रन्था 'अनङ्ग' इत्युच्यन्ते । २. क एतदधीते इत्यनधिकृत्य यदि विवक्ष्यते तीत्यर्थः ।