________________
श्रुतभेदाः
७९ पुलिन्दगोपालबालादीनाम्, गवादीनां = शबलबाहुल्यादीनां च शब्दश्रवणे = नरादिवर्णश्रवणे स्वस्वाम्युच्चरितस्वाह्वानसंसूचकशाबल्यादिशब्दश्रवणे च, लौकिकपरीक्षकभिन्नानां रथ्यापुरुषादीनां च, तदाभिमुख्यदर्शनात् = यद्देशादित आगतः शब्दः तद्देशाद्याभिमुख्यदर्शनाद् वक्तृमुखावलोकन-तत्पृच्छादेर्लाङ्गलादिचालनकर्णोन्नयनादिचेष्टादेर्दर्शनाद् । एतच्च श्रुतज्ञानं परोपदेशाजनितमेकेन्द्रियाणामप्यस्तीत्यतोऽपि परोपदेशं विना सम्भाव्यमित्याह-एकेन्द्रियाणामपीति ।
अक्षरश्रुतप्रतिपक्षमनक्षरश्रुतं निरूपयति
अनक्षरश्रुतमुच्छासादि-तस्याऽपि भावश्रुतहेतुत्वात्, ततोऽपि 'सशोकोऽय'मित्यादिज्ञानाविर्भावात् ।।
उच्छासादेरज्ञानरूपस्य कथं श्रुतत्वमित्यपेक्षायामाह-तस्याऽपीति । उच्छासादितो ज्ञानजनने सत्येव भाव श्रुतहेतुत्वं भवेदित्यत आह-ततोऽपीति । उच्छासादितोऽपीत्यर्थः । उच्चसन्तं पुरुषं दृष्ट्वा 'उच्छासादितः सशोकोऽय'मिति ज्ञानमाविर्भवति, श्रुते चैवं निर्णीतमस्ति-'यदुतोच्छ्वासादिः शोकप्रभव'-इति श्रुतानुसारितया तज्ज्ञानं श्रुतज्ञानमिति तज्जनकतयोच्छ्वासादेः श्रुतत्वमिति ।
उच्छासादिलक्षणपुरुषव्यापारस्यैव श्रुतस्वरूपम्, व्यापारान्तरस्य भावश्रुतहेतुत्वेन श्रुतरूपत्वेऽपि अनक्षररूपतया न प्रसिद्धिरित्यत्र विनिगमकमाह
अथवा श्रुतोपयुक्तस्य सर्वात्मनैवोपयोगात् सर्वस्यैव व्यापारस्य श्रुतरूपत्वेऽपि अत्रैव शास्त्रज्ञलोकप्रसिद्धा रूढिः ।
__ अत्रैव = उच्छासादावेव । शास्त्रानभिज्ञप्रसिद्धरूढेरपरीक्षाक्षेत्रत्वेनाऽनादरणीयत्वात् शास्त्रज्ञेति लोकस्य विशेषणम् । रूढिरिति । 'अनक्षरश्रुत'शब्दस्येति शेषः । शास्त्रज्ञा इत्थमेव व्यवहरन्तीति तथैवाऽभ्युपगन्तव्यमिति ।
'अनक्षरश्रुत'-आव० नि० २० ।
"इह उच्छसिताद्यनक्षरश्रुतं द्रव्यश्रुतमात्रमेवाऽवगन्तव्यं शब्दमात्रत्वात् । शब्दश्च भावश्रुतस्य कारणमेव । यच्च कारणं तद् द्रव्यमेव भवतीति भावः । भवति च तथाविधोच्छसितनिःश्वसितादिश्रवणे 'सशोकोऽयम्' इत्यादिज्ञानम् । एवं विशिष्टाभिसन्धिपूर्वकनिष्ठ्यूतकासितक्षुतादिश्रवणेऽपि आत्मज्ञानादि ज्ञानं वाच्यमिति । अथवा श्रुतज्ञानोपयुक्तस्य आत्मनः सर्वात्मनैवोपयोगात् सर्वोऽपि उच्छसितादिको व्यापारः श्रुतमेवेह प्रतिपत्तव्यम् इति उच्छसितादयः श्रुतं भवन्त्येवेति ।"-विशेषा० बृ० गा० ५०२ ।