________________
७८
सटीकजैनतर्कभाषायां तत्र = उक्तचतुर्दशसु श्रुतेषु मध्ये, अक्षरम् = अक्षरश्रुतम् । बहुविधलिपिभेदमिति । भाष्यमाणाकाराद्यक्षरावबोधनाय विविधनिर्मितिविषयीकृतरेखादिलक्षणलिपीनां प्रतिनियतस्वस्वसङ्केतिताक्षराणां स्वरूपतो यथाऽन्योन्यं भेद एकदेशीयपुरुषरचनावैशिष्ट्यकृतः तथा देशभेदेन तत्तद्देशीयपुरुषकृतसङ्केतभेदेनैकस्याऽप्यकारादे रेखादिसन्निवेशविशेषाविर्भावितस्वरूपतो व्यञ्जिकानां लिपीनां भेद इति बहुविधत्वं बोध्यम् । लिप्याऽक्षरं सञ्ज्ञायते इति सञ्ज्ञाक्षरत्वम् । भाष्यमाणं = वक्त्रोच्चार्यमाणम् ।
ननु सञ्ज्ञाक्षरं व्यञ्जनाक्षरं चाऽज्ञानरूपत्वात् कथं श्रुतम्, श्रुतानुसारिज्ञानस्यैव श्रुतत्वेन लक्षितत्वादित्यत आह-एते चेति । सञ्ज्ञाक्षरव्यञ्जनाक्षरे त्वित्यर्थः । उपचारादिति । परम्परया साक्षाद् वा तज्जन्यस्य शाब्दबोधात्मकज्ञानस्य भाव श्रुतत्वेन, तत्कारणत्वादनयोरपि श्रुतत्वोपचारत एते श्रुते इत्यर्थः ।
अक्षरस्य तृतीयभेदं लब्ध्यक्षरं निरूपयति लब्ध्यक्षरं त्विति । श्रुतोपयोगस्य साक्षात् श्रुतत्वम्, तदावरणक्षयोपशमस्याऽज्ञानरूपस्य तु श्रुतोपयोगलक्षणभावश्रुतकारणत्वादुपचारात् ।
यद्यपीन्द्रियमनोनिमित्तस्य, सङ्केतविषयपरोपदेशं श्रुतग्रन्थं वाऽनुसृत्य वाच्यवाचकभावेन संयोज्य 'घटो घट' इत्याद्यन्तर्जल्पाकारग्राहिज्ञानस्य, सांव्यवहारिकप्रत्यक्षरूपस्य श्रुतोपयोगस्याऽस्त्येव परोपदेशापेक्षा, तथापि मुग्धानां गवादीनां च शब्दश्रवणमात्रेणाऽपि उपयोगस्य श्रुताख्यस्य तदीयचेष्टाविशेषतोऽनुमीयमानस्य भावेन, लब्ध्यक्षरं परोपदेशं विनापि सम्भवतीत्याह
__एतच्च परोपदेशं विनापि नाऽसम्भाव्यम्-अनाकलितोपदेशानामपि मुग्धानां गवादीनां च शब्दश्रवणे तदाभिमुख्यदर्शनाद्, एकेन्द्रियाणामप्यव्यक्ताक्षरलाभाच्च ।
नाऽसम्भाव्यमिति निषेधद्वयात् सम्भाव्यमेवेत्यर्थः । परोपदेशं विनापि लब्ध्यक्षरेण सम्भाव्यमित्यनुभवतो व्यवस्थापयति-अनाकलितेति । मुग्धानाम् = अतीवमुग्धप्रकृतीनां
व्यञ्जनाक्षरयोरेवाऽवसेयम् । लब्ध्यक्षरं तु क्षयोपशमेन्द्रियादिनिमित्तमसज्ञिनां न विरुध्यते ।"विशेषा० बृ० गा० ४७५ ।
___ "यथा वा संज्ञिनामपि परोपदेशाभावेन केषाञ्चिदतीवमुग्धप्रकृतीनां पुलिन्दबालगोपालगवादीनामसत्यपि नरादिवर्णविशेषविषये विज्ञाने लब्ध्यक्षरं किमपीक्ष्यते, नरादिवर्णोच्चारणे तच्छ्रवणात् अभिमुखनिरीक्षणादिदर्शनाच्च । गौरपि हि शबलाबहुलादिशब्देन आकारिता सती स्वनाम जानीते प्रवृत्तिनिवृत्त्यादि च कुर्वती दृश्यते । नचैषां गवादीनां तथाविधः परोपदेशः समस्ति।"-विशेषा० बृ० गा० ४७६ ।