________________
७७
श्रुतज्ञानम् त्वाभावाद् बह्ववग्रहत्वादिरूपेण द्वादशविधत्वाभावेऽपि, व्यावहारिकार्थावग्रहस्य वस्तुस्थित्याऽपायरूपस्योक्तद्वादशविधत्वमिति सामान्यतोऽर्थावग्रहस्य भवतु द्वादशविधत्वम् । परं व्यञ्जनावग्रहस्याऽज्ञानरूपतापक्षे औपचारिकमेव ज्ञानत्वमिति कथं बह्वादिभेदः ? तस्य ज्ञानरूपत्वपक्षेऽपि च नाऽर्थविषयकज्ञानत्वम्, अव्यक्तार्थज्ञानताभ्युपगमोऽपि तत्राऽर्थज्ञानरूपार्थवग्रहोपादानत्वनिबन्धनोपचारत एव-तत्र मनोव्यापाराभावात्, मनोव्यापारमन्तरेण जायमाने ज्ञाने परमार्थतोऽर्थविषयकत्वस्याऽनुपचरितस्याऽसम्भवात् । तथा चाऽर्थविषयकत्वाभावेऽर्थबहुत्वादिनिबन्धनस्य बह्वादिरूपेणाऽवभासकत्वस्याऽप्यभावादुक्तद्वादशविधत्वमपि न सम्भवतीति मतिज्ञानस्य षट्त्रिंशदधिकत्रिशतविधत्वमप्यसम्भवदुक्तिकं यद्यपि, तथाप्युपचारतो यथा ज्ञानत्वादिकं व्यञ्जनावग्रहस्य, तथा तत्कार्यार्थावग्रहादिगत-बह्वाद्यवभासकत्वमप्युपचारत इति तदाश्रयेणोक्तभेदोपपत्तिरिति ।
मतिज्ञाननिरूपणमुपसंहरतिउक्ता मतिभेदाः ।
श्रुतज्ञाननिरूपणम् तत्र श्रुतानुसारिज्ञानत्वं श्रुतज्ञानत्वमित्येवं श्रुतज्ञानलक्षणस्य पूर्वमभिहितत्वात् तद्विभागमेवाऽऽह
श्रुतभेदा उच्यन्ते-श्रुतम् अक्षर-सज्ञि-सम्यक्-सादि-सपर्यवसित-गमिकाऽङ्गप्रविष्टभेदैः सप्रतिपक्षैः चतुर्दशविधम् ।
प्रतिपक्षाः चाऽक्षरादीनां सप्तानामनक्षरासंग्यसम्यगनाद्यपर्यवसितागमिकानङ्गप्रविष्टभेदाः सप्तेति मिलित्वा चतुर्दशविधं श्रुतमित्यर्थः ।
__ तत्राऽक्षरं त्रिविधं-सञ्ज्ञा-व्यञ्जन-लब्धिभेदात् । सञ्ज्ञाक्षरं बहुविधलिपिभेदम्, व्यञ्जनाक्षरं भाष्यमाणमकारादि-एते चोपचारात् श्रुते । लब्ब्यक्षरं तु इन्द्रियमनोनिमित्तः श्रुतोपयोगः, तदावरणक्षयोपशमो वा।
'श्रुतम् अक्षर'-आव०नि० १९ । विशेषा० बृ० गा० ४५४ । 'तत्राक्षरं त्रिविधम्'-विशेषा० बृ० गा० ४६४-४६६ ।
"एते चोपचाराच्छ्ते'-"सञ्ज्ञाक्षरम्, व्यञ्जनाक्षरं चैते द्वे अपि भावश्रुतकारणत्वात् द्रव्यश्रुतम् ।"-विशेषा० बृ० गा० ४६७ ।
'एतच्च परोपदेशं विनापि'-"यदपि परोपदेशजत्वमक्षरस्य उच्यते. तदपि सञ्ज्ञा
१. व्यञ्जनावग्रहे ज्ञानाज्ञानरूपपक्षद्वयं ३५ पृष्ठ द्रष्टव्यम् ।