________________
७६
सटीकजैनतर्कभाषायां बह्ववग्रहादिनो बहुविधावग्रहादेविशेष्यांशावगाहित्वसाम्येऽपि प्रकारांशावगाहित्वेऽस्ति वैलक्षण्यं-बह्ववग्रहादिमतः पुरुषतो बहुविधावग्रहादिमत एकैकस्मिन्नपि विशेष्ये बहुधर्मप्रकारावबोधत्वादिति बहुविधस्वरूपावेदनेन प्रकटयति___अपरस्तु क्षयोपशमवैचित्र्याद् बहुविधम्-एकैकस्याऽपि शङ्खादिशब्दस्य स्निग्धत्वादिबहुधर्मान्वितत्वेनाऽऽप्याकलनात् । परस्त्वबहुविध-स्निग्धत्वादिस्वल्पधर्मान्वितत्वेनाऽऽकलनात् ।
बहुविधं जानातीत्येव हेतूपदर्शनेन द्रढयति-एकैकस्याऽपीति । एतद्विपरीतमबहुविधं निरूपयति-परस्त्विति । अबहुविधत्वे पूर्वस्माद् न्यूनधर्माकलनमर्थात् प्राप्तमपि स्पष्टप्रतिपत्तये दर्शयति-स्निग्धत्वादीति ।
शीघ्रपरिच्छेदकावग्रहादित्वं क्षिप्रावग्रहादित्वम्, चिरपरिच्छेदकावग्रहादित्वमक्षिप्रावग्रहादित्वमिति क्रमेण दर्शयति
अन्यस्तु क्षिप्रं-शीघ्रमेव परिच्छेदात् । इतरस्त्वक्षिप्रं-चिरविमर्शेनाऽऽकलनात् । ___लिङ्गं विनैव वस्तुपरिच्छेदकावग्रहादित्वमनिश्रितावग्रहादित्वम्, लिङ्गावलम्बनेन वस्तुपरिच्छेदकावग्रहादित्वं निश्रितावग्रहादित्वमिति क्रमेण निरूपयति
परस्त्वनिश्रितं-लिङ्ग विना स्वरूपत एव परिच्छेदात् । अपरस्तु निश्रितंलिङ्गनिश्रयाऽऽकलनात् ।
विरुद्धधर्मानालिङ्गितत्वेन वस्त्ववग्राह्यवग्रहादित्वं निश्चितावग्रहादित्वम्, विरुद्धधर्मालिङ्गितत्वेन वस्त्ववग्राह्यवग्रहादित्वमनिश्चितावग्रहादित्वमिति क्रमेणोपदर्शयति
कश्चित्तु निश्चितं-विरुद्धधर्मानालिङ्गितत्वेनाऽवगतेः । इतरस्तु निश्चितं-विरुद्धधर्माङ्किततयाऽवगमात् ।
यस्य पुंसो यदा यदा यद्वस्तुनो बोधः तदा तदा नियतेन बह्वादिरूपेणैव बोधो भवति, स ध्रुवमवगृह्णाति; यस्य च प्रमातुः कदाचिद् यस्य वस्तुनो बह्वादिरूपेण बोधः, तस्यैव प्रमातुः तस्यैव वस्तुनः कदाचिदबादिरूपेण बोधः, सोऽध्रुवमवगृह्णातीत्येवंव्यवस्थया ध्रुवावग्रहादिकमध्रुवावग्रहादिकं च लक्षितं भवतीत्याह
अन्यो ध्रुवं-बह्वादिरूपेणाऽवगतस्य सर्वदैव तथा बोधात् । अन्यस्त्वध्रुवंकदाचिद् बह्वादिरूपेण कदाचित्त्वबह्वादिरूपेणाऽवगमादिति ।
इदं त्ववधेयं-सामान्यमात्रग्राहिणो नैश्चयिकार्थावग्रहस्य वस्त्वादिरूपेणाऽर्थावगमक