________________
७५
मतिभेदाः विंशतिर्मतिभेदा भवन्ति ।
अवग्रहादयः = अर्थावग्रहेहापायधारणाः चत्वारः, मनइन्द्रियैः = मन एकमिन्द्रियाणि चक्षुरादीनि पञ्च, तैः, षोढा भिद्यमानाः = प्रत्येकं षट्प्रकारैभिद्यमानाः, चतुर्णां प्रत्येक षट्प्रकारैभिद्यमानत्वे चतुर्विंशतिर्थेदाः सम्पद्यन्ते, तत्र, व्यञ्जनावग्रहचतुर्भेदैः = मनोनयनयोव्यञ्जनावग्रहाभावात् श्रोत्रादीन्द्रियप्रभवैः चतुभिर्व्यञ्जनावग्रहै: सह सङ्कलने अष्टाविंशतिमतिभेदाः = अष्टाविंशतिसङ्ख्याका मतिविशेषाः ।
अष्टाविंशतिसङ्ख्याकानामेषां बह्वादिविषयभेदनिबन्धन-बहुबहुविधादिद्वादशभेदानां प्रत्येकं सम्भवात्, सर्वेषां सङ्कलने षट्त्रिंशदधिकत्रिशतभेदा मतिज्ञानस्येत्याह
अथवा बहु-बहुविध-क्षिप्रा-ऽनिश्रित-निश्चित-धुवैः सप्रतिपक्षैादशभिधंदैभिन्नानामेतेषां षट्त्रिंशदधिकानि त्रीणि शतानि भवन्ति ।।
बह्ववग्रह-बहुविधावग्रह-क्षिप्रावग्रह-अनिश्रितावग्रह-निश्चितावग्रह-ध्रुवावग्रहै:, एवं बह्वीहादिभिः तथा बह्वपायादिभिः तथा बहुधारणाभिः, सप्रतिपक्षैः = अबह्ववग्रहाद्यबह्वीहाद्यबह्वपायाद्यबहुधारणादिसहितैः, एतेषाम् = अनन्तरनिर्दिष्टानामष्टाविंशतिसङ्ख्याकानामवग्रहादीनाम् । अन्यत् स्पष्टम् ।
अवग्रहादीनां बह्वादिभेदाः किंनिबन्धना इत्यपेक्षायामाहबह्वादयश्च भेदा विषयापेक्षाः, बह्ववग्रहादीनां विषयापेक्षत्वमेव भावयति
तथाहि कश्चिद् नानाशब्दसमूहमाणितं बहुं जानाति–'एतावन्तोऽत्र शङ्खशब्दा एतावन्तश्च पटहादिशब्दा' इति पृथग्भिन्नजातीयं क्षयोपशमविशेषात् परिच्छिन्नतीत्यर्थः । अन्यस्त्वल्पक्षयोपशमत्वात् तत्समानदेशोऽप्यबहुम् ।।
कश्चित् = प्रमातृविशेषः । बहुं जानातीति सामान्योक्तमेव विशिष्याऽर्थप्रकटनेन स्पष्टयति-एतावन्तोऽत्रेति । अत्र = आकर्णिते नानाशब्दसमूहे । बहुग्रहणमुपदर्य तत्प्रतिपक्षमबहुग्रहणमुपदर्शयति-अन्यस्त्विति । अन्यः = बह्वर्थग्रहणकर्तृभिन्नः, तत्समानदेशोऽपि = बहुग्रहीतृप्रमातृदेशवर्त्यपि । जानातीत्यनुवर्तते, एवमग्रेऽपि ।
'अथवा बहुबहु०'-विशेषा० बृ० गा० ३०७ । 'बह्वादयश्च भेदा:'-विशेषा० बृ० गा० ३०८-३१० ।